मेजर ध्यानचन्द

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 
ध्यानचन्द (हिन्दी: ध्यानचन्द, आङ्ग्ल: dyanchand ) इत्यस्य मुख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत् । तस्य गतिः अश्व इव आसीत् । तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म । सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत् । तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत् । यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत । सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत् ।

जन्म, परिवारश्च

ध्यानचन्द इत्यस्य जन्म १९०५ तमस्य वर्षस्य अगस्त-मासस्य २९ तमे दिनाङ्के उत्तरप्रदेशराज्यस्य इलाहबाद-नगरे अभवत् । तस्य पितुः नाम सोमेश्वरदत्त सिंहः इति आसीत् । तस्य मूलसिंहः, ध्यानसिंहः , रूपसिंहः इति त्रयः पुत्राः आसन् । तेषु ध्यानसिंहः पितुः प्रेरणया हॉकी-क्रीडां प्रति आकर्षितः अभवत् इति तस्य पिता सैनिकः आसीत् ।

बाल्यं, शिक्षणं च

ध्यानचन्द" इत्यस्य बाल्यं लालित्यपूर्णम् आसीत् । सः इलाहाबाद-नगरे पितृभ्यां सह वसति स्म । प्राथमिकं, माध्यमिकं च शिक्षणं तेन इलाहबाद-नगरे प्राप्तम् । ततः परं सः ज़ासि-नगरे गतः । तत्र तस्य आभ्यसस्तु चलति स्म किन्तु पितुः हॉकी-क्रीडायाः प्रीतीं दृष्ट्वा सः हॉकी-क्रीडायै अधिकं ध्यानं ददाति स्म ।

सैनिकः ध्यानचन्दः

१९२२ तमे वर्षे ध्यानचन्दः भारतीयायां सेनायां सम्मिलितः अभवत् । सः तन्वा, मनसा च सेनायाः कार्यम् अकरोत् ।

सैनिकः क्रीडकः अभवत्-

जेहलम इत्यत्र पञ्जाब भारतीय यूथ पक्षात् सादी-क्रीडा(tournament)याः अन्तिमा स्पर्धा आसीत् । सर्वेऽपि दृष्टारः समुत्सुकाः आसन् । सर्वे ध्यानचन्दम् एव पश्यन्ति स्म । सः ध्यानचन्दस्य परीक्षायाः कालः आसीत् । विजयप्राप्तौ अन्तिमेषु चतुर्षु निमेषेषु स्वस्य यूथेन लक्ष्यद्वयं (goal) कर्तव्यम् आसीत् । ततः परं तेषां स्वामी कमान्डर् उच्चैः अग्रे गच्छन्तु ध्यान ! त्वं किमपि कुरु इति अवदत् । अतः तस्य रवः अपि झर्जरितः अभवत् । तत् श्रुत्वा ध्यानचन्दः ससङ्घर्षं क्रीडारतः अभवत् । तेन प्रथमे निमेषे १ लक्ष्यम् (goal) कृतः । पुनः क्रीडारतः सन् ३ निमेषे २ लक्ष्यम् (goal), चतुर्थे निमिषे ३ लक्ष्यम् (goal) कृतः । इत्थं तेन सादी-क्रीडा (tournament ) इत्यस्मिन् विजयः प्राप्तः ।

प्रथमः अवसरः
१९२६ तमे वर्षे ध्यानचन्द हॉकी-क्रीडायाः माध्यमेन देशाय किमपि कर्तुम् अवसरं प्रापत् । प्रथमवारं 'भारतीय सैन्य-यूथ' इति दलं (team) हॉकी-क्रीडायै न्युज़ीलैण्ड् गच्छद् आसीत् । तस्मिन् ध्यानचन्द इत्यस्यापि गणना अभवत् । देशस्य अयं सैनिकः हॉकी इति आयुधेन कीडाङ्गणं प्राप्स्यति इति निश्चितम् अभवत् ।


स्वामी, बाला तिवारी इत्येतयोः उपदेशः

स्वामी यात्रायाः गाम्भीर्यं बोधयितुं ध्यानचन्दं स्वगृहे आहूतवान् । तत्र सः त्वयि मे पूर्णः विश्वासः अस्ति इति ध्यानचन्दाय अवदत् । किन्तु न्युज़ीलैण्ड-देशस्य प्रवासे अस्माकं विजयः भवेदिति अहम् ऐच्छम् । तत् श्रुत्वा ध्यानचन्दः सस्मितं गुरो ! तव मयि श्रद्धा अस्ति, मम हॉकी इत्यस्मिन् विश्वासः अस्ति । वयम् अवश्यमेव विजयं प्राप्स्यामः । तदनन्तरं स्वामी तान् अभ्यासं कर्तुम् असूचयत् । तदनन्तरं क्रीडाङ्गणे कन्दुकः अन्येभ्यः दातव्यः, स्वयमेव न रक्षणीयः इति गुरु बाले तिवारी इत्ययं ध्यानचन्दम् अवदत् ।


विवाहः


प्रगतिपथे ध्यानचन्दः अग्रेसरः आसीत् । गृहक्रीडाङ्गणयोः सः प्रतिदिनं विकसति स्म । १९३६ तमे वर्षे ओलम्पिक् इत्यस्य विज्ञापनम् अभवत् । तस्मिन्नैव वर्षे परिवारजनानाम् आग्रहवशात् जानकीदेवी इति नामिकया कन्यया सह तस्य विवाहः अभवत् । विश्वस्मिन् विझार्ड् ओफ् हॉकी इति नाम्ना विख्यातः सः सांसारिकजीवने सन्नपि क्रीडां प्रति जागरूकः आसीत् ।[९] सः निरन्तरं क्रीडाङ्गणात् गृहं, गृहात् क्रीडाङ्गणं च प्रति धावति स्म । सः उभयत्र स्वस्य कर्तव्यं निर्वहति स्म । जानकीदेवी अपि सरला महिला आसीत् । सा सहधर्मचारिणीत्वेन सदैव तस्य साहाय्यं विदधाति स्म । सांसारिके जीवनेऽपि सः सप्तपुत्राणां पिता अभवत् ।

ध्यानचन्दस्य ओलम्पिक् इत्यस्मिन् क्रीडा


१९३२ तमे वर्षे भारतेन ३७ स्पर्धाः क्रीडीताः । तेषु ३३८ लक्ष्यानि साधितानि । तेषु पुनः १३३ लक्ष्यानि (goal) ध्यानचन्दस्य आसीत् । ध्यानचन्दस्य कौशलं दृष्ट्वा एकस्य बृहद् ग्रन्थस्यापि निर्माणं भवितुं शक्यम् । तस्य क्रीडाङ्गणस्य कौशलम् अद्भूतम् आसीत् । १९३६ तमे वर्षे भारतेन ओलम्पिक क्रीडामहोत्सवे भागः गृहीतः ।[१०] तस्मिन् ध्यानचन्दस्य प्रदर्शनं दृष्ट्वा एकेन जर्मन-सन्देशपत्रेण साम्प्रतम् ओलम्पिक-क्रीडामहोत्सवे मायाकारस्य कौतुकम् अपि दृश्यते इति लिखितम् । तदनन्तरम् आगच्छन्तु आगच्छन्तु कीडाङ्गणे भारतीयमायाकारं ध्यानचन्दं पश्यन्तु तस्य मायां पश्यन्तु इति लिखित्वा चित्राणि उल्लिखितानि भवन्ति स्म ।


ध्याचन्दस्य हॉकी



ध्याचन्दस्य हॉकी क्रीडाप्राविण्यं विश्वस्मिन् प्रख्यातम् अभवत् । तस्य विषये एकः पत्रकारः “ ध्यानचन्दस्य हॉकी लोहचुम्बकेन निर्मिता अस्ति । अतः कन्दूकः तस्मात् दूरं न गच्छति ” इति अवदत् । वैदेशिकक्रीडायाः मान्धाता समानाः जनाः ध्यानचन्दं मानसिकरीत्या पराजेतुम् व्यचारयन् । ते टिप्पणीं कृत्वा जनान् अपि भ्रामयन्ति स्म । ततः परं एकैकस्यां क्रीडायां ध्यानचन्दस्य हॉकी परीक्षणं भवति स्म अन्ते टोकीयो-नगरे वैदेशिकैः ध्यानचन्दस्य हॉकी-ध्वंसः कृतः ।


हिटलर् इत्यस्य प्रस्तावाः


अडोल्फ हिटलर् इत्ययं ध्यानचन्दस्य क्रीडया प्रभावितः सन् तस्य हॉकी अलभ्यासु वस्तुषु स्थापयितुम् इच्छति स्म । १९३६ तमे वर्षे ओलम्पिक् इत्यस्मिन् ध्यानचन्दस्य क्रीडया प्रभावितः अडोल्फ हिटलर् इत्ययं तं प्रति प्रस्तावत्रयम् अस्थापयत् ।1. अडोल्फ हिटलर् इत्ययं ध्यानचन्दः तेन सह भोजनं कुर्यात् । २) ब्रिटिश्- इन्डियन सेनायाः मेजरपदम् आलङ्करोत् । ३) जर्मनदेशस्य नागरिकत्वं च स्व्यकरोत् ।

ध्यानचन्दस्य प्रत्युत्तरम्


भारतस्य अयं वीरः तान् प्रस्तावान् नम्रतापूर्वकम् अत्यजत् । भारतं मम देशः अस्ति । वयं तस्य पुत्राः स्मः । अस्माकं हृत्सु भारतस्य गौरवम् अस्ति । वयं तं प्रति कृतज्ञाः स्मः । अहं हॉकी-क्रीडां प्रति समर्पितः अस्मि । मम योगदानं केवलं भारतं प्रति एव अस्ति । [तस्य एभिः वचनैः सर्वे स्तब्धाः अभवन् । यथा क्रिकेट्- क्रीडायां सर् डोन् ब्रेडमेन् , बोक्सिङ्ग क्रीडायां महम्मद अली, तथैव भारते हॉकी-क्रीडायां ध्यानचन्दः अभवत् । हॉकी- भारतस्य राष्ट्रिया क्रीडा अभवत्, तस्य श्रेयः ध्यानचन्द इत्यस्मै देयः ।


सर् डोन् ब्रेडमेन् इत्यनेन सह ध्यानचन्दस्य मेलनम्

१९२६ तमे वर्षे हॉकी-क्रीडायां प्रविष्टः ध्यानचन्दः स्वल्पे एव काले विश्वस्मिन् विख्यातः अभवत् । तदानीं भारतस्य प्रतिनिधित्वेन चिते दले अस्य ध्यानचन्दस्य नाम प्रथमं भवति स्म । [१४]सः एकैकस्यां क्रीडायां स्वस्य प्रतिभाम् अपि दर्शयति स्म ।


भारतस्य हॉकी-दलस्य सिद्धयः


१९२८ तमे वर्षे एमस्टरडेम ओलम्पिक् क्रीडामहोत्सवे, १९३१ तमे वर्षे लॉस् एन्जलस् ओलम्पिक् क्रीडामहोत्सवे च भारतस्य हॉकी-दलस्य जनैः सुवर्णचन्द्रकः प्राप्तः । तस्मिन् ध्यानचन्दस्य सर्वाधिकं योगदानम् आसीत् [१५]। तथैव १९३५ तमे वर्षेऽपि अभवत् इति । तस्मिन् वर्षे भारतस्य हॉकी-दलम् ऑस्ट्रेलिया-देशस्य, न्युजिलॅण्ड-देशस्य च प्रवासे आसीत् । ध्यानचन्द इति नामकस्य मायाकारस्य सर्वत्र चर्चा आसीत् । अत एव भारतस्य गणं यत्र गच्छति स्म, तत्रत्यं हॉकी-दलं तेन सह क्रीडां क्रीडद् गौरवम् अनुभवति स्म । तेषु अपि भारतस्य मायाकारसमानेन क्रीडकेन सह क्रीडां क्रीडामः इति अत्यधिकं गौरवम् अनुभवन्ति स्म । भारतीयदलस्य क्रीडाप्रवासाय यतः आमन्त्रणं प्राप्यते स्म , अधिकारिणः तत् स्वीकुर्वन्ति स्म । अपि च तेषु क्रीडाप्रवासेषु क्रीडकाः अपि स्वस्य सम्पूर्णां शक्तिं नियोजयन्ति स्म ।



भारतस्य हॉकी-दलस्य प्रदर्शनम्



भारतस्य हॉकी-दलम् ऑस्ट्रेलिया-देशस्य, न्युजिलॅण्ड-देशस्य च प्रवासे यानि आमन्त्रणानि प्राप्तानि तेषु सर्वेषु भारतस्य क्रीडकाः 'कार्यं साधयामः वा देहं पातयामः' इति विचारेण सह एव क्रीडन्ति स्म ।[१६] यादृशेन उत्साहेन क्रीडाङ्गणे अवतरन्ति स्म, ततः द्वीगुणितेन उत्साहेन विजयमपि प्राप्नुवति स्म । अस्मिन् प्रवासे भारतस्य दलं ४८ स्पर्धाः अक्रीडत्, तासु सर्वासु क्रीडासु विजयः अपि प्राप्तः । तत्र भारतस्य हॉकी-दलेन ५८४ (goal) लक्ष्यानि साधितानि । तेषु २०० (goal) लक्ष्यानि ध्यानचन्दस्य आसन् ।




विश्वस्मिन् हॉकी-क्रीडायाः प्रचारः


सम्पूर्णे विश्वे हॉकी इत्यस्य प्रचारः अवर्धत । विविधानां क्रीडानाम् उत्तमक्रीडालूनाम् एकः एव प्रश्नः आसीत् । कः अयं ध्यानचन्दः ? तस्य किं वैशिष्ट्यम् ? तस्य हॉकी-क्रीडायाः का माया यया जनाः मन्त्रवमुग्धाः भवन्ति ?






ध्यानचन्दस्य हॉकी-क्रीडायाः प्रेक्षकत्वेन सर् डोन् ब्रेडमेन्

ध्यानचन्दस्य ख्यातिं दृष्ट्वा क्रीकेट्- क्रीडाया महान् क्रीडकः सर् डोन् ब्रेडमेन् हॉकी-क्रीडां दृष्टुं गतवान् । क्रीडन्तं ध्यानचन्दं दृष्ट्वा सः आश्चर्यं गतः । सम्पूर्णां क्रीडां दृष्ट्वा तस्य मुखात् प्रश्ऩः निर्गतः ।[१७] सः हॉकी क्रीडकः अस्ति वा क्रीकेट् क्रीडकः ? इति सर् डोन् ब्रेडमेन् इत्ययम् व्यचारयत् । तस्य कारणं क्रीकेट् क्रीडकः अङ्कानां सम्पादने एकस्य क्षेपकस्यैव प्रतिकारं करोति किन्तु हॉकी क्रीडायां ध्यानचन्दः सर्वेषां प्रतीकारं कुर्वन्नपि सारल्येन लक्ष्यं विपुलतां साधयति इति ।


ध्यानचन्दस्य राष्ट्रप्रेमः

ध्यानचन्दस्य पूर्वतः एव एकस्मिन् क्षेत्रे अग्रण्या भवितव्यं तादृशी काऽपि इच्छा किशोरावस्थां यावत् नासीत् । सः सैनिकः अभवत्, तस्मात् दिनात् तस्य देशं प्रति प्रीतिः अवर्धत । ततः परं सः सैनिकानां हॉकी-दले चितः । तत्रापि सर्वैः तस्य देशप्रेम दृष्टम्। देशे वा विदेशे कुत्रापि क्रीडा स्यात् सः सर्वप्रथमं "वंदेमातरम्" इति गीतमेव गायति स्म । तेन सः भारतमातुः आशिषं गृह्णाति स्म इति किंवदन्त्यपि श्रूयते । कदाचित् एतस्मात् एव कारणात् सः सर्वदा विजयमेव प्राप्नोति स्म ।

ध्यानचन्दस्य एकाग्रता सहनशीलता च
ध्यानचन्दः क्रीडाङ्गणं प्रविश्य स्वस्य हॉकी इत्यनेन लक्ष्यं (goal) कर्तव्यम् इत्येव तस्य मुख्यं कार्यम् आसीत् । एकदा ध्यानचन्दः एकाग्रचित्तेन क्रीडाङ्गणे क्रीडन्नासीत् । सः केवलं कन्दुकमेव पश्यन्नासीत् । सः एकवारं कन्दुकः प्राप्नोति, ततः परं यावत् लक्ष्यप्राप्तिः न भवेत्, तावत् सः धावति स्म । तस्य हॉकी क्रीडायाम् इमाम् एकाग्रतां दृष्ट्वा जनाः तस्मै असूयन्ति स्म । एतस्मादेव कारणात् एकेन लक्ष्यरक्षकः गोल् किपर् इत्यनेन तस्योपरि आक्रमणं कृतम् । तस्मिन् आक्रमणे ध्यानचन्द भग्नदन्तः अभवत् । मुखात् सततम् रुधिरं प्रावहत् च ।तथापि सः क्रीडां समाप्य एव क्रीडाङ्गणात् बहिः निर्गतः ।

ध्यानचन्दस्य चयनाय विचारस्य प्रसंङ्गः


९३५ तमस्य वर्षस्य दिसम्बर-मासे इन्डियन् हॉकी फेडरेशन् इति स्पर्धा बर्निल्-नगरे आसीत् । ओलम्पिक् क्रीडामहोत्सवे सुवर्णचन्द्रकद्वयं प्राप्तवान् तादृशं भारतीय हॉकी-दलं विदेशस्य भूमौ क्रीडां क्रीडेत् तत् सामान्यम् अभवत् । किन्तु अस्मिन् वर्षे ध्यानचन्दस्य चयनं न भविष्यति इति भयम् आसीत् ।यतः ध्यानचन्दस्य हृदयरोगः आसीत् । तेन शस्त्रक्रिया अपि कारिता, एतस्मादेव कारणात् सः स्वयमपि तस्य चयनं न भविष्यति इति अमन्यत । किन्तु "इन्डियन हॉकी फेडरेशन्" इत्यस्मिन् ध्यानचन्दस्य चयनं न भवेत् तत् अशक्यम् । ध्यानचन्दस्य भारतदेशं प्रति या श्रद्धा वा या भावना आसीत्, सा चयनकर्तृभिः दृष्टा आसीत् । अतः रुग्णे सत्यपि चयनकर्तारः तं गणनायकरूपेण निरचिनोत् ।


गणस्य विजयाय तत्परः


सामान्यतया कोऽपि जनः स्वयं सर्वश्रेष्ठं प्रदर्शनं कुर्यात् इत्येव इच्छति स्म । किन्तु ध्यानचन्दः हॉकी क्रीडायां सर्वश्रेष्ठं प्रदर्शनं भवेत् इति ध्यानचन्दः न चिन्तयति स्म । सः सर्वानपि लक्ष्यं साधयितुम् अवसरं ददाति स्म । किन्तु सः क्रीडकः तद् अवसरं सफलतां प्रति न नयति तर्हि तस्मै क्रुध्यति स्म ।

तथापि जनाः तं लक्ष्यस्य मायाकाररूपेण जानन्ति स्म । तथापि सः मनसा गणस्य विजयः भवेत् इत्येव इच्छति स्म । अत एव सः सर्वेभ्यः गोल् कर्तुम् अवसरः यच्छति स्म । १९४७ तमे वर्षे भारतस्य हॉकी-क्रीडागणम् अन्यदेशस्य प्रवासे आसीत् । गणः यस्मिन् देशे गच्छति 'इन्डियन् हॉकी अशोसिएशन्' तत्र तेषां क्रीडायाः आयोजनं करोति स्म । क्रीडाङ्गणे मुखरेण बहवः निर्णयाः कर्तव्याः भवन्ति स्म । तथा कन्दुकः कस्मै देयः कः गोल् करिष्यति इत्यादयः निर्णयाः भवन्ति स्म । गणस्य मुखरेण ध्यानचन्देन कृतान् निर्णयान् अन्ये क्रीडकाः अनुसरन्ति स्म । एतादृशैः निर्णयैः भारतीय गणस्य विजयः भवति स्म ।


ध्यानचन्दः अन्यस्मै प्रदत्तस्य अवसरस्य प्रसङ्गः

यदा क्रीडायां भारतीयगणस्य, विरोधिगणस्य च क्रीडकाः लक्ष्यं साधयितुं धावन्ति स्म, तदा ध्यानचन्देन कन्दुकः विरोधीगस्य क्रीडकात् कन्दुकः सङ्गृहीतः । सः धावन् लक्ष्यं साधयितुं गच्छन्नासीत्, तदैव स्वस्य गणस्य के.डी. सिंहः अपि तस्य समीपे धावति स्म । ध्यानचन्दः तं प्रति कन्दुकं प्रैषयत् किन्तु कारणवशात् के.डी.सिंहः लक्ष्यं साधयितुं न अशक्नोत्, तत् दृष्ट्वा ध्यानचन्दः तस्मै कटिं दर्शयित्वा ततः निर्गतः । यदा क्रीडान्ते सर्वे आरामप्रकोष्टं प्राप्ताः, तदा के.डी.सिंहः कटिं दर्शयित्वा ततः निर्गमनस्य कारणं ज्ञातुं शक्नोमि इति अपृच्छत् । ध्यानचन्दः अहं साक्षात् लक्ष्यं साधयितुं समर्थः आसीत् किन्तु भवान् अवसरं प्राप्नोत् इति विचार्य मया कन्दुकः तुभ्यं प्रेषितः, किन्तु भवता तद् अवसरः न सफलीकृतः । अपि च लक्ष्यसाधनाय अक्षमानां कृते मम गणे स्थानं नास्ति इति अवदत् ।


प्रशंसकानां मध्ये ध्यानचन्दः

भारतीयगणस्य अयं सैनिकः अहर्निशं प्रसिद्धिं प्राप्नोति स्म । देशस्य, विदेशस्य च जनाः ध्यानचन्दं मेलितुं भारतीय हॉकी-गणम् आह्वयन्ति स्म । किन्तु ततः प्राक् भारतीयगणः विदेशं गन्तुं जनेभ्यः याचनां करोति स्म । [२५] ध्यानचन्दस्य काले विदेशगमनं सामान्यम् अभवत् । विविधाः देशाः भारतीयगणं स्वयमेव आह्वयन्ति स्म । अतः भारतीय-गणस्य क्रीडकानां कृते विदेशस्य प्रवासः सामान्यः अभवत् । भारतीयगणं विदेशे आह्वयन्ति, ते ध्यानचन्देन विना हॉकीगणस्य स्वीकारमपि न कुर्वन्ति स्म । "पूर्व आफ्रीका-देशस्य फेडरेशन्" भारतीयगणम् आफ्रीका-देशस्य प्रवासार्थम् आहूतवान् किन्तु यदि तस्मिन् गणे ध्यानचन्दः न स्यात् तर्हि आमन्त्रणमपि न इति तैः स्पष्टता कृता ।


ध्यानचन्दस्य व्यक्तित्वम्

ध्यानचन्दः अतीव नम्रः सामान्यश्च आसीत् । स्वस्य एतावती प्रतिष्ठा आसीत्तथापि सः लेशमात्रमपि अहङ्कारं न करोति स्म । सः सामान्यव्यक्तिरूपेण जन्म प्रापत्, सामान्यव्यक्तिरूपेण च जीवनम् अकरोत् इति । अतः एव तस्य प्रशंसकेषु आधिक्यम् अभवत् इति । एकदा सः प्राग् इति नामकं नगरम् अटितुं गतवान् । तत्र स्त्रीणां हॉकी-क्रीडकस्य गणात् सः क्रीडति स्म । तत्र एका महिला समागता, सा ध्यानचन्दस्य प्रशंसिका आसीत् । अहं त्वां चुम्बितुम् इच्छामि इति तस्मै अवदत् । किन्तु ध्यानचन्दः नम्रतापूर्वकं तस्यै क्षम्यताम् अहं विवाहितः अस्मि इति अवदत् ।

पेशावरगमनस्य प्रशङ्गः

यदा भारतस्य विभाजनम् अभवत्, तदा ध्यानचन्दः स्वस्य विशालप्रशंसकवर्गेण परिचितः आसीत् । यदा सः सम्पूर्णेन गणेन सह लाहोर-नगरात् पेशावर-नगरं प्रति गच्छन्नासीत् । तदा लाहोर-नगरे तस्य समर्थकाः रेलस्थाने कोलाहलम् अकुर्वन् । अतः यानं चतुः घण्टा विलम्बेन पेशावरम् आप ।

सर्वश्रेष्ठः पुरस्कारः
निखिलं जगत् तस्य क्रीडाकौशलेन तं परिचिनोति स्म । ततः किमधिकमिच्छेत् सः। ध्यानचन्दः यदा हॉकी क्रीडायां प्रविष्टः तदा एव तस्य बहुमानप्राप्तेः अवसरस्यापि आरम्भः अभवत् इति । सः न केवलं भारते अपि तु लण्डन्, एमस्टरडें बर्लिन्, प्राग्, लोस् एनजलस्, नेधर् लेण्ड, जापान, पाकिस्तान, आदिषु सर्वेष्वपि देशेषु, नगरेषु च सः "मायाकार" इति नाम्ना प्रासिद्धः सन् जनमनस्सु स्थानं लेभे् । तस्य कृते सर्वश्रेष्ठः पुरस्कारः जनानां प्रेम आसीत् ।


पुरस्काराः

अगस्त मासस्य २९ दिनाङ्के क्रीडोत्सवदिनस्य (sport day) आयोजनं भवति । तत् आयोजनं ध्यानचन्दस्य बहुमाने भवति । तस्मिन्नेव दिवसे राष्ट्रप्रमुखभवने राजीवगान्धी खेलरत्नपुरस्कारः, अर्जुनपुरस्कारः, द्रोणाचार्यपुरस्कारश्च दीयते । १९५६ तमे वर्षे ४३ वर्षणां वयसि ध्यानचन्दः पद्मभूषण इति पुरस्कारं प्रापत् । सैनिकपदात् निवृत्तः सन् अपि सः हॉकी-क्रीडायां स्वस्य योगदानं दत्तवान् । तदनन्तरं तस्य निवृत्यन्ते सः "लाईफ टाईम अचिवमेन्ट" पुरस्कारः अपि प्रापत् । अनेन १९२८, १९३२, १९३६ वर्षस्य च ओलम्पिक् स्पर्धाः भारतस्य कृते विजीताः । सः भारतं क्रीडाक्षेत्रे अग्रगण्यम् अकरोत् । तस्य योगदानार्पणं शब्दैः भवितुम् अशक्यम् । भारते, विदेशे च तस्य स्मरणे प्रतिमाः स्थापिताः । विदेशस्य वियेना-नगरे चतुर्भिः हस्तैः, चतुर्भिः हॉकी इत्येताभिः च तस्य प्रतिमा स्थापिता इति । हॉकी- क्रीडाजगतः पितुः ध्यानचन्दस्य मरणान्ते सर्वकारः तस्य स्मरणे पोस्ट टिकिट् इत्यस्य मुद्रणम् अकरोत् । कस्या अपि व्यक्तेः स्मरणे देशस्य सर्वकारः पोस्ट टिकिट् इत्यस्य मुद्रणं कुर्यात् तस्मात् तं सम्भावयितुं किमधिकम् ।



भारतीय हॉकी-क्रीडायाः अवसानम्

भारतीय हॉकी-क्रीडां शून्यात् सर्जनं प्रति अनयत् तादृशः ध्यानचन्दः मेजर ध्यानचन्द इति नाम्ना प्रख्यातः आसीत् । किन्तु साम्प्रतं तु जनाः तं क्रीडायाः माध्यमेनेव जानन्ति इति । जनानां मनसि प्राप्तस्थानः अयमपि जीवनस्य चक्रे बद्धः अभवत् । अन्ते हॉकी-क्रीडां प्रति मोहं, मायां च त्यक्त्वा अयं रोगग्रस्तः अभवत् । निवृत्तः भूत्वापि अनेन स्वस्य शरीरात् वयाधिकं कार्यं कृतम् आसीत् । जीवनस्य अन्तिमेषु दिनेषु सः रोगग्रस्तः अभवत् जनाः ध्यानचन्दः अर्थात् प्रख्यातः हॉकी-क्रीडकः, ध्यानचन्दः अर्थात् हॉकी-क्रीडायाः हृदयम् इत्येतत् सर्वं जनाः विस्मृतवन्तः । अत एव जीवनस्य अन्तिमे काले तं चिकित्सालयस्य सामान्ये विभागे स्थानं दत्तवन्तः । यदा एकस्य पत्रकारस्य लेखः समाचारपत्रे प्रकटः अभवत्, तदा तस्मै विशिष्टः प्रकोष्टः प्रदत्तः ।

मृत्युः

ध्यानचन्दस्य चिकित्सालयस्य सामान्ये विभागात् विशिष्टे प्रकोष्टे स्थानं प्राप्तवान् किन्तु तस्य मनसि १९७६ तमे वर्षे सप्तम्याम् ओलम्पिक क्रीडायां भारतस्य किं भविष्यति इति चिन्ता आसीत् ।  ४० वर्षस्य जीवनपर्यन्तं सूर्य इव तेजस्वीतायां जीवीतवान् तादृशः ध्यानचन्दस्य मृत्योः प्राक् चिकित्सकः भारतस्य हॉकी-क्रीडां मृत्युं प्रति गच्छती अस्ति । तां रक्षतु वा त्यजतु इति अवदत् । ततः परं ध्यानचन्दः मूर्छितायाम् अवस्थायां जीवनं यापितवान् । अन्ते १९७९ तमस्य दिसम्बर-मासस्य तृतीये दिनाङ्के तस्य मृत्युः अभवत् इति ।


देववाणी एंड्रायड एप डाउनलोड

वार्ताः


संघ शाखा लगाने की पद्धति...

🙏गुरु पुर्णिमा महोत्सव🙏
२७/०७/२०१८/- शुक्रवार
------------------------------- [ ... ]

अधिकम् पठतु
महाभारत के युद्ध में भोजन प्रबंधन...

*🔥।। महाभारत के युद्ध में भोजन प्रबंधन।।🔥*

*महाभारत को हम  [ ... ]

अधिकम् पठतु
राम रक्षा स्त्रोत को पढकर रह सकते हैं भयमुक्त...

राम रक्षा स्त्रोत को ग्यारह बार एक बार में पढ़ लिया जाए तो  [ ... ]

अधिकम् पठतु
आज से हमारे त्योहार शुरू हो गए एवं शादी ब्याह जैसे...

आज से हमारे पर्व एवं त्योहार शुरु हो गए हैं.. जरा नोट 📝 कर ल [ ... ]

अधिकम् पठतु
चंद्रग्रहण जुलाई २०१८ आषाढ १५...

🌕🌖🌗🌘🌑

*चंद्र ग्रहण*
27-28 जुलाई 2018 आषाढ़ पूर्णिमा ( *गुरु पूर् [ ... ]

अधिकम् पठतु
भारत की दुर्दशा.और आरक्षण का जड ...

भारत की दुर्दशा.और आरक्षण का जड



खुशनुमा आर्यावर्त. ..सोने  [ ... ]

अधिकम् पठतु
राजा जनक के गुरू अष्टावक्र...

महाराजा जनक के गुरु अष्टावक्र जी एक सम्पूर्ण प्रस्तुति,,,,
 [ ... ]

अधिकम् पठतु
श्वेतार्क गणपति पूजन विधान...

श्वेतार्क गणपति पूजन विधान
〰️〰️🔸〰️🔸〰️🔸〰️〰️
गणेश प्रतिम [ ... ]

अधिकम् पठतु
११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है...* ...

*११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है...* =================================== च [ ... ]

अधिकम् पठतु
आपकी राशि के अनुसार शिव अर्चना...

आपकी राशि और शिव पूजा शिव पुराण में उल्लेख हैं की महाशिवर [ ... ]

अधिकम् पठतु
बुद्ध और ब्राम्हण

बुद्ध और ब्राह्मण मूलनिवासी अकसर ब्राह्मणों को कोसते है [ ... ]

अधिकम् पठतु
सोमवार के ही दिन शिव की पूजा क्यों करते हैं जानें ...

🌿🌸🍃🌺🌿🌸🍃🌺🌿🌸🍃 *क्यों सोमवार" को ही *भगवान शिव की पूजा कर [ ... ]

अधिकम् पठतु
जानें महाशिवरात्री का वैज्ञानिक पहलू एवं छ्मा मंत्...

💐✍💐 *जानें महाशिवरात्रि का वैज्ञानिक पहलू और क्षमा मन्त [ ... ]

अधिकम् पठतु
रावण पराजय और सीता हरण क्यों...

*“ रावण - पराजय और सीता - हरण क्यों ?
“* नारायण ! श्रीमद् देवीभ [ ... ]

अधिकम् पठतु
महाशिवरात्री व्रत कथा...

महा देव औरशिवरात्रि जप तप ब्रतकी कथा पूर्व काल में चित्रभ [ ... ]

अधिकम् पठतु
अन्य लेख