यजुर्वेदम्

यजुर्वेदम्

Loading...

 

यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च । पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।

 

वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवला मन्त्रा विद्यन्ते, कृष्णयजुर्वेदे तु विनियोग वाक्यानि मन्त्राश्च । अतोऽमिश्रितरूपतया शुक्लयजुर्वेदः, मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि लोकाः कथयन्ति ।

 

सोऽयं यजुर्वेदः ४० अध्यायान्, ३०३ अनुवाकान्, १९७५ कण्डिका (मन्त्रान्), २९६२५ शब्दान्, ८८८७५ अक्षराणि च बिभर्ति । अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीयेऽग्निहोत्रं चातुर्मास्येष्टिः, चतुर्थाध्यायादष्टादशाध्यायपर्यन्तम् अग्निः चयनम्, उखाभरणम्, चितयः रुद्रहः, शतरुद्रियम् वसोर्धारा, राष्ट्रभृच्च । एकोनविंशतितमाध्यायात् परिशिष्टमारभ्यते, विशे एकविंशे च सोमसम्पादनविधिः, तदनु पञ्चविंशतिपर्यन्तमश्वमेधः ततः शेषे भागे पुरुषमेधसर्वमेधपुतृमेधादिविवरणञ्च प्रपञ्चितम् । अन्तिमश्चाध्याय ईशावास्योपनिषद्रूपः ।

 

शुक्लयजुर्वेदस्य वाजसनेयिसंहिता कथ्यते । तादृशनामकरणे बीजं त्विदं कथ्यते यत् याज्ञवल्क्येनाराधितः सूर्यो वाजी भूत्वा तस्मै वेदं प्रोक्तवान् अतस्तदुक्ता संहिता वाजसनेयी संहिता समाख्याता । शुक्लयजुर्वेदस्य माध्यन्दिनशाखा कण्वशाखा चेति द्वे शाखे । प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे । अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः , बहुष्वंशेषु तुल्यता वर्त्तते । कृष्णयजुर्वेदस्य चतस्रः शाखा-प्राप्यन्ते –

 

तैत्तिरीयशाखा –इयं प्रधानशाखा, अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्याया, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठका बहुष्वनुवाकेषु विभक्ताः सन्ति ।

मैत्रायणीसंहिता इमे द्वे अपि संहिते तैत्तिरीय –संहितामनुकुरुतः,

काठकसंहिता केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते ।

आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते ।

 

कृष्‍णयजुर्वेद:

शुक्‍लयजुर्वेद:

देवनागरी ब्राह्मी लिपि परिवर्तक...
Virendra Tiwari

देवनागरी ब्राह्मी लिपि परिवर्तक function convert_to_Devanagari() { var a [ ... ]

अधिकम् पठतु
तिङन्त निर्माणक
Virendra Tiwari

$(function() { var availableTags = ['aMsa','ahi!','aka!','akzU!','aga!','aNka','aki!','aNga',' [ ... ]

अधिकम् पठतु
प्रत्यय निर्माणक
Virendra Tiwari

सवर्ण निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
संधि निर्माणक
Virendra Tiwari

संधि निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
धातु रूप निर्माणक देववाणी...
Virendra Tiwari

धातु रूप निर्माणक देववाणी - याति स्वय [ ... ]

अधिकम् पठतु
भगवती के ५१ प्रमुख शक्तिपीठ...
Virendra Tiwari

॥ ॐ दुं दर्गायॆ नम: ॥
॥ भगवती के ५१ प्रमुख शक्तिपीठ ॥
**********

1. कि [ ... ]

अधिकम् पठतु
अन्य लेख