तैत्तिरीयब्राह्मणम्

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 
तैत्तिरीयब्राह्मणं कृष्णयजुर्वेदीयशाखाया एकमात्रमुपलब्धं ब्राह्मणमस्ति । काठकब्राह्मणस्य केवलं नाम एव श्रूयते । अद्यावधिस्तस्य उपलब्धिः नास्ति । तैत्तिरीयब्राह्मणस्य पाठः स्वरयुक्तो लभते, शतपथब्राह्मणमिवेति । फलतः इदमपि नितान्तं प्राचीनं मन्यते। परिमाणे अपीदं न्यूनं नास्ति । काण्डत्रये विभक्तोऽयं ग्रन्थोस्ति । पश्चादृग्वेदीयविभाग इव अष्टकनाम्ना प्रसिद्धोऽभवत् ।


प्रथम-द्वितीयकाण्डयोः अष्टाध्यायाः सन्ति, तृतीयकाण्डे च द्वादशाध्यायाः सन्ति । अस्यावान्तरखण्डः ‘अनुवाक्' इति नाम्ना ख्यातोऽस्ति । तैत्तिरीयब्राह्मणस्य प्रथमकाण्डे अग्न्याधान-गवामयन-वाजपेय-सोम-नक्षत्रेष्टि-राजसूयादीनां वर्णनमस्ति। द्वितीयकाण्डे अग्निहोत्र-उपहोम-सौत्रामणी-बृहस्पतिसव-वैश्यसवादीनां नानासत्राणां विवरणमस्ति । सौत्रामणीसत्रे सोमस्थाने सुरापानस्य अपि विधानमस्ति । प्रत्यनुष्ठानं ऋग्मन्त्राणामपि सर्वत्रोल्लेखोऽस्ति । अस्मिन् अनेकाः ऋचः ऋग्वेदात् समुद्धृताः सन्ति । नासदीयसूक्तस्य[१] मन्त्राणां विनियोगः सामान्योपहोमनिमित्ताय एवास्ति । उपनिषदीयब्रह्मतत्त्वस्य सङ्केतो अत्र अविस्मरणीयशब्देषु कृतोऽस्ति । यस्य वेदिमेव पृथिव्याः परमन्तं मध्यश्च मन्यते ।

'वेदिमाहुः परमन्तं पृथिव्याः वेदिमाहुर्भुवनस्य नाभिम्'॥

तृतीयकाण्डस्तु अवान्तरकालिका रचना कथ्यते । अस्मिन् काण्डे प्रथमतः नक्षत्रेष्ट्याः वर्णनमस्ति । चतुर्थप्रपाठके पुरुषमेधस्योपयुक्तानां पशूनां वर्णनमस्ति । वर्णनमिदं कृष्णयजुर्वेदस्य संहितायामनुपलब्धमस्ति । अस्य काण्डस्यान्तिमाः त्रयः प्रपाठकाः (१०-१२) काठकनाम्नाऽभिहिताः सन्ति । सम्भवतः अंशोऽयं काठकशास्त्रीयब्राह्मणस्य भवेत्तथा केनाऽपि विशिष्टोद्देश्येनात्र सड्गृहीतो भवेत्। एकादशप्रपाठके ऋषिभरद्वाजः स्वब्रह्मचर्येण मुष्टित्रयमेव अलभत् । इदमेव त्रयीविद्या नाम्ना ख्याताऽभवत् । द्वादशप्रपाठके चातुर्होत्र-वैश्वसृज्यागादीनां वर्णनमस्ति । वैश्वसृज्यागस्तु प्रतीकात्मकानुष्ठानमस्ति । अस्मिन् यज्ञे समस्तानां पदार्थानां होमः सम्पन्नो भवति । देवास्तु सहस्रवर्षपर्यन्तम् अनुष्ठानमिदं कृतवन्तः । तेन ते ब्राह्मणैः सह सायुज्यम्, सालोकतां, साषितां, समानलोकतां चालभन् ।
अस्मिन् ब्राह्मणे सामवेदः समस्तानां वेदानां शीर्षस्थानीयो मन्यते । मूक्तिस्तथा वैश्यस्योत्पत्तिः ऋग्वेदात्, गतिस्तथा क्षत्रियस्योत्पत्तिः यजुर्वेदात्, ज्योतिस्तथा ब्राह्मणस्योत्पत्तिः सामवेदादिति उक्त्वा सामवेदस्य श्रेष्ठत्वं स्थापितमनेन ब्राह्मणेन । नानाविधेषु यज्ञेषु गवां दक्षिणायाः एव सर्वत्र विधानमस्ति । वर्णव्यवस्थायाः पूर्णप्रतिष्ठा सर्वत्र समादृतास्ति । अश्वमेधस्तु केवलं क्षत्रियराज्ञे एव विहितोऽस्ति । अस्य वर्णनमपि विस्तरेण विशदतया अस्ति । वर्णनमिदं शतपथब्राह्मणस्य विवरणेन सह साम्यं भजते । क्षत्रियेषु भेदद्वयं दृश्यते ।

राज्याधिकारिणः क्षत्रियाः राजपुत्रा इति कथ्यन्ते, अनधिकारिणः क्षत्रियास्तु ‘उग्र' इति नाम्ना ख्याता आसन् । शूद्रास्तु यज्ञाय अपवित्राः आसन् । दुग्धोऽपि यच्छूद्रो दोग्धि यज्ञायापवित्रम् एवासीत्। ‘अहविरेव तद् यच्छूद्रो दोग्धीति'। पुरुषमेधाय निर्दिष्टपशूनाम् आलोचनया प्रतीतो भवति यत्तदा सङ्करजातीनामपि समुत्पत्तिरजायत । समाजे स्त्रीणां विशेषः समादर आसीत् । तदर्थमुपयुक्ताभूषणानामपि वर्णनं प्राप्यते। ऋत्विजः यज्ञीयदक्षिणास्वरूपे स्त्रीभ्य आभूषणानां महत्त्वं विशेषरूपेण अददः।ब्राह्मणाः यज्ञावसरे यजीयविषयोपरि शास्त्रार्थमकुर्वन् । पुराणेषु उल्लिखितानाम् अवतारकथानां बीजमपि समुपलब्धो भवत्यत्र।[६] वाराहावतारस्य स्पष्टतः सङ्केतो लभते।

वार्ताः


शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित