समासः

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

समासपरिचयः

समयपालनस्य प्रवृत्तिः प्राचीनकालादेव अस्ति । अधुना तु जनाः अजस्रं कार्यार्थं धावन्तः दृश्यन्ते । ते अल्पेनैव कालेन बहु किमपि साधयितुम् इच्छन्ति । एतादृशि समये यदि वयं वदामः यत् "द्वादशभिर्वर्षैः व्याकरणं श्रूयते ततो मन्वादीनि धर्मशास्त्राणि ततः अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायनादीनि। एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते, ततः प्रतिबोधनं भवति।" इति तर्हि प्रायः न कश्चिदपि व्याकरणपठनाय सिद्धः भवेत् ।

अधुना जनाः सिद्धं, सरलं, सङ्क्षेपञ्च इच्छन्ति । उक्तमपि वर्तते "सङ्क्षेपरुचिर्हि लोकः" इति। मन्ये प्रायः सङ्क्षेपस्य एतादृशी भावना एव समासप्रयोगे प्रयोजिका वर्तते इति । समासकारणेन कियान् सङ्क्षेपः भवतीति उदाहरणद्वयेन स्पष्टं कर्तुमिच्छामि ।
यदा अस्माभिः वक्तव्यं भवति यत् "यः भोजनं कृतवान् अस्ति तम्" आह्वयतु इति, तदा एतस्य वाक्यस्य स्थाने "कृतभोजनम्" आह्वयतु इति कथनेनैव इष्टसिद्धिः भवति । तथैव "यः पीतानि अम्बराणि धृतवान् अस्ति सः" श्रीकृष्णः इति एतस्य वाक्यस्य स्थाने "पीताम्बरः" श्रीकृष्णः इत्यनेनैव अर्थबोधः जायते । एवमेव ’शक्तिमनतिक्रम्य’ इत्येतस्य स्थाने यथाशक्ति इति कथनेनैव इष्टसिद्धिः भवति। यदि एतादृशानां लघुवाक्यानां प्रयोगेण एव अर्थबोधः जायतॆ तर्हि तावत् लम्बायमानं वाक्यं किमर्थं वा वदेम। यद्यपि कण्ठेकालः, जनुषान्धः, परस्मैपदम्, आत्मनेपदम् इत्यादिषु समासः अस्ति परं सङ्क्षेपः न दृश्यते इति अवभासते तथापि अस्माभिरवगन्तव्यं यत् समासात् प्राक् तत्र पदद्वयमासीत्, समासकरणेन एकं पदं जातमित्येव सङ्क्षेपः इति । वस्तुतः समासस्य प्रयोजनम् ऐकपद्यम् ऐकस्वर्यञ्च वर्तते । उक्तञ्च काशिकायाम्- ’समासस्य प्रयोजनम् ऎकपद्यम् ऎकस्वर्यञ्च’ इति। एकपदत्वम् एकस्वरत्वञ्च सर्वसमासेषु भवत्येव ।

तादृशं संस्कृतसाहित्यं न वर्तते यत्र सन्धिः समासश्च न स्यात् । न केवलं संकृतसाहित्ये एव अपि तु आङ्ग्लादिभाषास्वपि समासः दरीदृश्यते । यथा Good-natured, Father-in-law, Black-board, Rail-way, In-side इत्यादयः । यद्यपि तत्र समासः इति नोच्यते अपि तु Compound इति शब्देन उच्यते तथापि ’कम्पौण्ड्’ शब्दस्य समासशब्दस्य च समानः अर्थः भवति। एषः ’कम्पौण्ड’ इति शब्दः लाटिन् भाषायाः ’काँम् पोनेरे’ इति शब्देन निर्मितः अस्ति। ’काम्’ इति शब्दः ’सम’ शब्दस्य समानार्थकः अस्ति, तथैव ’अस्’ ’आस्’ वा धातोः’पोनेर’ शब्दस्य च अर्थः अपि समानः एव अस्ति। बहुविधसमासकारणेन एकस्य शब्दस्य अनेके अर्थाः सम्भवन्ति । अत्र कश्चन प्रसिद्धः श्लोकः अस्ति -

:अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि । :बहुव्रीहिरहं राजन् त्वञ्च तत्पुरुषो मतः॥

कश्चन भिक्षुकः राजानं वदति हे राजेन्द्र! अहं त्वञ्च उभावपि लोकनाथौ। अर्थात्, त्वं तत्पुरुषः (लोकस्य नाथः इति लोकनाथः), अहं तु बहुव्रीहिः (लोकः नाथः यस्य सः लोकनाथः)।

अत्र जिज्ञासेयमुत्पद्यते यत् किं नाम समासत्वमिति । वैयाकरणाः समासस्य सामान्यलक्षणम् एवं वदन्ति,

विभक्तिर्लुप्यते यत्र तदर्थस्तु प्रतीयते।:

पदानां चैक्यपद्यञ्च समासः सोऽभिधीयते॥ अर्थात्, यत्र विभक्तिर्लुप्यते परं तेषाम् अर्थस्तु अवभासते, अपि च अनेकपदानां मेलनेन एकपदं जायते। तदा समासः अभिधीयते। समासशब्दस्य अनेकाः व्युत्पत्तयः श्रूयन्ते। यथा-
समसनं समासः (भावे घञ्)
समस्यते एकीक्रियते प्रयोक्तृभिः इति समासः (कर्मणि घञ्)
अनेकपदानाम् एकपदीभवनं समासः
समुपसर्गकात् क्षेपणार्थकात् ’अस्’ इति धातोः, उपवेशनार्थकात् ’आस्’ इति धातोर्वा ’घञ्’ प्रत्यये कृते सति समासशब्दः निष्पद्यते तस्य च अर्थः सङ्क्षेपः इति । परार्थाभिधायिकासु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चवृत्तिषु अन्यतमा वृत्तिः समासवृत्तिरिति । समासविषये अवधेयाः अंशाः -

  • समासः प्रायः सुबन्तानामेव भवति, न तु तिङन्तानाम्।

अत्र प्रायः इति कथनेन क्वचित् अन्यत्र अपि भवति इति भासते। अन्यत्र कुत्र भवति इति जिज्ञासायाम् उच्यते-

  • समासः युगपद् द्वयोः द्वयोः सुबन्तयोः भवति। क्वचित्तु युगपद् बहूनामपि।

  • परस्परान्वितयोः सुबन्तयोः समासः भवति।

  • समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदमिति च व्यवह्रियते।

  • समासे जाते पूर्वपदम् उत्तरपदञ्च प्रतिपदिकरूपेण स्थितं भवति। ततः समस्तात् पदात् विभक्तिः योजनीया।

 

समासभेदाः

समासः द्विधा -

१) केवलसमासः,

२) विशेषसमासश्चेति।

(१) केवलसमासः

तत्पुरुषादिसंज्ञाविनिर्मुक्तः समाससंज्ञामात्रयुक्तः केवलसमासः। यथा - भूतपूर्वः। पूर्वं भूतः इति भूतपूर्वः।

(२) विशेषसमासः चतुर्धा

              १. अव्ययीभावसमासः

              २. तत्पुरुषसमासः

               ३. बहुब्रीहिसमासः

               ४.द्वन्द्वसमासः

अव्ययीभावसमासः

प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावसमासः । कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति। यथा उन्मत्तगङ्गम्, लोहितगङ्गम् इति। अत्र उभयत्रपि “उन्मत्ता गङ्गा यस्मिन् देशे उन्मत्तगङ्गम्” तथैव “लोहिता गङ्गा यस्मिन् देशे लोहितगङ्गम्” इति अन्यपदार्थस्य प्राधान्यं वर्तते। तथैव शाकप्रति इत्यादिषु उत्तरपदस्य प्राधान्यं वर्तते। परं समासस्तु अव्ययीभावः एव। अतः लक्षणे प्रायेण इति उक्तम्। एवमेव अन्येशु त्रिषु लक्षणेषु अपि अवधेयम्।

अव्ययीभावसमासः प्रायः त्रयस्त्रिंशद्धा (३३) । तेषु प्रसिद्धाः द्वादशधा (१२) । ते च सर्वे अव्ययपूर्वपदरूपेण, अव्ययोत्तरपदरूपेण, अव्ययपदरहितरूपेण च त्रिधा विभज्यन्ते। तेषां क्रमेण उदाहरणानि यथा -

१) उपकृष्णम् - कृष्णस्य समीपम् इति उपकृष्णम्।

२) शाकप्रति - शाकस्य लेशः इति शाकप्रति।

३) पारेगङ्गम् - गङ्गायाः पारे इति पारेगङ्गम्।

तत्पुरुषसमासः

प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषसमासः।अतिमालः, अर्धपिप्पली, पूर्वकायः, निष्कौशाम्बिः इत्यादिषु उत्तरपदार्थस्य प्राधान्याभावेऽपि तत्पुरुषः समासः भवति। अतः लक्षणे प्रायेण इत्युक्तम्।

भेदाः

तत्पुरुषसमासः चतुर्धा -

  1. सामान्यतत्पुरुषः

  2. कर्मधारयः

  3. द्विगुः

  4. नञ् प्रभृतयश्चेति।

सामान्यतत्पुरुषः सप्तधा

  1. प्रथमातत्पुरुषः यथा - ‘अर्धग्रामः’ अर्धं ग्रामस्य इति अर्धग्रामः।

  2. द्वितीयातत्पुरुषः यथा - ‘गृहगतः’ गृहं गतः इति गृहगतः।

  3. तृतीयातत्पुरुषः यथा - ‘नखभिन्नः’ नखैः भिन्नः इति नखभिन्नः।

  4. चतुर्थीतत्पुरुषः यथा - ‘गोहितम्’ गवे हितम् इति गोहितम्।

  5. पञ्चमीतत्पुरुषः यथा - ‘चोरभयम्’ चोरात् भयम् इति चोरभयम्।

  6. षष्ठीतत्पुरुषः यथा - ‘वृक्षमूलम्’ वृक्षस्य मूलम् इति वृक्षमूलम्।

  7. सप्तमीतत्पुरुषः यथा - ‘कार्यकुशलः’ कार्ये कुशलः इति कार्यकुशलः।

कर्मधारयसमासः नवधा

  1. विशेषणपूर्वपदकर्मधारयः - यथा - ‘नीलमेघः’ नीलो मेघः इति नीलमेघः।

  2. विशेषणोत्तरपदकर्मधारयः - यथा - ‘वैयाकरणखसूचिः’ वैयाकरणः खसूचिः इति वैयाकरणखसूचिः।

  3. विशेषणोभयपदकर्मधारयः - यथा - ‘शीतोष्णम्’ शीतम् उष्णम् इति शीतोष्णम्।

  4. उपमानपूर्वपदकर्मधारयः - यथा - ‘मेघश्यामः’ मेघः इव श्यामः इति मेघश्यामः।

  5. उपमानोत्तरपदकर्मधारयः - यथा - ‘नरव्याघ्रः’ नरः व्याघ्रः इव इति नरव्याघ्रः।

  6. अवधारणापूर्वपदकर्मधारयः - यथा - ‘विद्याधनम्’ विद्या एव धनम् इति विद्याधनम्।

  7. सम्भावनापूर्वपदकर्मधारयः - यथा - ‘आम्रवृक्षः’ आम्रः इति वृक्षः इति आम्रवृक्षः।

  8. मध्यमपदलोपीकर्मधारयः - यथा - ‘शाकपार्थिवः’ शाकप्रियः पार्थिवः इति शाकपार्थिवः।

  9. मयूरव्यंसकादिकर्मधारयः - यथा - ‘देशान्तरम्’ अन्यो देशः इति देशान्तरम्।

द्विगुसमासः त्रिधा

  1. समाहारद्विगुः - यथा - ‘त्रिलोकी’ त्रयाणां लोकानां समाहारः इति त्रिलोकी।

  2. तद्धितार्थद्विगुः - यथा - ‘षाण्मातुरः’ षण्णां मातॄणाम् अपत्यम् इति षाण्मातुरः।

  3. उत्तरपदद्विगुः - यथा - ‘पञ्चगवधनः’ पञ्चगावः धनं यस्य सः पञ्चगवधनः।

नञ्प्रभृतयः पञ्चधा

१ नञ्समासः - यथा - ‘अधर्मः’ न धर्मः इति अधर्मः।

२ कुसमासः - यथा - ‘कुपुरुषः’ कुत्सितः पुरुषः इति कुपुरुषः।

३ गतिसमासः - यथा - ‘शुक्लीकृत्य’ अशुक्लं शुक्लं कृत्वा इति शुक्लीकृत्य।

४ प्रादिसमासः - यथा - ‘प्राचार्यः’ प्रगतः आचार्यः इति प्राचार्यः।

- ‘अतिदेवः’ अतिक्रान्तः देवम् इति अतिदेवः।

- ‘निर्वाराणसिः’ निष्क्रान्तः वाराणस्याः इति निर्वाराणसिः।

५ उपपदसमासः - यथा - ‘कुम्भकारः’ कुम्भं करोति इति कुम्भकारः।

बहुव्रीहिसमासः

प्रायेण अन्यपदार्थप्रधानः बहुव्रीहिसमासः।द्वौ वा त्रयो वा द्वित्राः इत्यादिषु उभयपदार्थस्य प्राधान्येऽपि द्वन्द्वः दृश्यते अतः समासलक्षणे प्रायेण इत्युक्तम्।

भेदाः

बहुव्रीहिसमासः द्विधा -

  1. सामान्यबहुव्रीहिः

  2. विशेषबहुव्रीहिश्चेति

सामान्यबहुव्रीहिः षोढा

  1. द्वितीयार्थबहुव्रीहिः - यथा - ‘प्राप्तोदकं’ प्राप्तम् उदकं यं सः प्राप्तोदकः (ग्रामः)

  2. तृतीयार्थबहुव्रीहिः - यथा - ‘पीतक्षीरः’ पीतं क्षीरं येन सः पीतक्षीरः (बालः)

  3. चतुर्थ्यर्थबहुव्रीहिः - यथा - ‘दत्तपशुः’ दत्तः पशुः यस्मै सः दत्तपशुः (रुद्रः)

  4. पञ्चम्यर्थबहुव्रीहिः - यथा - ‘उद्धृतजलः’ उद्धृतं जलं यस्मात् सः उद्धृतजलः (कूपः)

  5. षष्ठ्यर्थबहुव्रीहिः - यथा - ‘पीताम्बरः’ पीतम् अम्बरं यस्य सः पीताम्बरः (हरिः)

  6. सप्तम्यर्थबहुव्रीहि - यथा - ‘बहुफलः’ बहूनि फलानि यस्मिन् सः बहुफलः (वृक्षः)

विशेषबहुव्रीहिः नवधा

  1. व्यधिकरणबहुव्रीहिः - यथा - ‘चक्रपाणि’ चक्रं पाणौ यस्य सः चक्रपाणिः।

  2. सङ्ख्योत्तरबहुव्रीहिः - यथा - ‘उपविंशाः’ विंशतेः समीपे ये सन्ति ते उपविंशाः।

  3. सङ्ख्योभयपदबहुव्रीहिः - यथा - ‘द्वित्राः’ द्वौ वा त्रयो वा इति द्वित्राः।

  4. सहपूर्वपदबहुव्रीहिः - यथा - ‘सशिष्यः’ शिष्येण सह वर्तते इति सशिष्यः।

  5. व्यतिहारलक्षणबहुव्रीहिः - यथा - ‘केशाकेशि’ केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् इति केशाकेशि।

  6. दिगन्तराललक्षणबहुव्रीहिः - यथा - ‘दक्षिणपूर्वा’ दक्षिणस्याः पूर्वस्याः दिशो यदन्तरालम् इति दक्षिणपूर्वा।

  7. नञ्बहुव्रीहिः - यथा - ‘अपुत्राः’ अविद्यमानः पुत्राः यस्य सः अपुत्राः।

  8. प्रादिबहुव्रीहिः - यथा - ‘निष्कृपः’ निर्गता कृपा यस्मात् सः निष्कृपः।

  9. उपमानपूर्वपदबहुव्रीहिः - यथा - ‘गजाननः’ गजाननमिव आननं यस्य सः गजाननः।

 

द्वन्द्वसमासः

प्रायेण उभयपदार्थप्रधानः द्वन्द्वसमासः।दन्ताश्च ओष्ठौ च दन्तोष्ठम् इत्यत्र समाहारस्य प्राधान्यं वर्तते न तु उभयपदार्थस्य। परं समासस्तु द्वन्द्वः एव। अतः लक्षणे प्रायेण इत्युक्तम्।

भेदाः

द्वन्द्वसमासः द्विधा –

  1. इतरेतरद्वन्द्वः

  2. समाहारद्वन्द्वश्चेति।

इतरेतरद्वन्द्वसमासः द्विधा

  1. द्विपदद्वन्द्वसमासः - यथा - ‘रामकृष्णौ’ रामश्च कृष्णश्च इति रामकृष्णौ।

  2. बहुपदद्वन्द्वसमासः - यथा - ‘हरिहरगुरवः’ हरिश्च हरश्च गुरुश्च इति हरिहरगुरवः।

समाहारद्वन्द्वसमासः द्विधा

  1. समाहारद्वन्द्वः - यथा - ‘संज्ञापरिभाषम्’ संज्ञा च परिभाषा च अनयोः समाहारः इति संज्ञापरिभाषम्।

  2. नित्यसमाहारद्वन्द्वः - यथा - ‘पाणिपादम्’ पाणी च पादौ च एतेषां समाहारः इति पाणिपादम्।

वार्ताः


हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित