कारकम्

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

क्रमवतां वर्णानां समूहः पदम् । पदसमूहः वाक्यम् । वाक्यम् अभीप्सितम् अर्थं बोधयति । अतः शब्दप्रपञ्चे वाक्यमेव प्राधान्यम् आवहति । किन्तु पदम् अन्तरा वाक्यं न भवति । ऋते वर्णेभ्यः पदं नास्ति । अतः व्याकरणे वर्णनिमित्तानि कार्याणि, पदनिमित्तानि कार्याणि च सन्ति । प्रायः सन्धिकार्याणि वर्णनिमित्तकानि । समासादीनि पदनिमित्तकानि । वाक्यम् अवलम्ब्य प्रवृत्तानि भवन्ति कारकाणि कारकसम्बन्धीनि कार्याणि च । साक्षात् परम्परया वा वाक्यानि संस्कर्तुम् एव व्याकरणं प्रवृत्तम् । सम्प्रति कारकाणि कारकसम्बन्धीनि कार्याणि च इह प्रस्तूयन्ते ।

कारकम्

किं नाम कारकम् ? क्रियान्वयि कारकम् । क्रियायाः अन्वयः = क्रियान्वयः । अन्वयः = सम्बन्धः । क्रियान्वयः अस्य अस्ति इति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति ) सः कारकम् इत्युच्यते इति फलितार्थः । यथा –

  1. पाचकः पचति । अत्र पाचकः पाकक्रियायाम् अन्वेति । अतः पाचकः कारकम् । तच्च प्रकृते कर्तृकारकम् ।

  2. गां स्पृशति । अत्र गौः स्पर्शनक्रियायाम् अन्वेति । अतः सा कारकम् । तच्च प्रकृते कर्मकारकम् ।

  3. परशुना छिनत्ति । अत्र परशुः छेदनक्रियायाम् अन्वेति । अतः कारकम् । तच्च प्रकृते करणकारकम् ।

  4. बालाय फलं ददाति । अत्र बालः दानक्रियायाम् अन्वेति । अतः बालः कारकम् । तच्च प्रकृते सम्प्रदानकारकम् ।

  5. प्रासादात् पतति । अत्र प्रासादः पतनक्रियायाम् अन्वेति । अतः प्रासादः कारकम् । तच्च अपादानकारकम् ।

  6. पीठे उपविशति । अत्र पीठम् उपवेशनक्रियायाम् अन्वेति । अतः पीठं कारकम् । तच्च प्रकृते अधिकरण-कारकम् ।

कर्तृकारकं क्रियायां साक्षात् अन्वेति । अन्यानि कारकाणि तु परम्परया क्रियायाम् अन्वयं प्राप्नुवन्ति इति ज्ञेयम् । इदं परिशील्यताम् – कः, कां, केन, कस्मै, कस्मात्, कुत्र ददाति इति प्रश्नः (अयोध्यायाः) राजा, गां, हस्तेन, विप्राय, गोष्ठात्, गङ्गातीरे ददाति इति वाक्येन समाहितः भवति । अतः दानक्रियायां षडपि कारकाणि अन्वितानि भवन्ति इति स्पष्टम् । ‘कस्य राजा’ इति प्रश्नस्तु ‘अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः अन्वयः राज्ञि एव, न तु दानक्रियायाम् । अतः षष्ठी (शेषषष्ठी) कारकं न इति उद्घोषः ।

इत्थञ्च क्रियया सह कारकाणां सम्बन्धस्य परिशीलनाय प्रश्नोत्तररुपः पन्थाः सुगमः । यथा –‘कः पचति?’ = कः पाकक्रियां निर्वर्तयति ? इति उत्थितायाः आकांक्षायाः (प्रश्नस्य )उपशमनं देवदत्तः पचति=‘ देवदत्तः पाकक्रियां निर्वर्तयति’ इति वाक्येन (उत्तरेण ) भवति । देवदत्तस्य कर्तुः पाकक्रियया सह सम्बन्धः यदि न अभविष्यत् तर्हि आकांक्षायाः उपशमनमपि न अभविष्यत् । जातञ्च उपशमनम् आकांक्षायाः । अतः क्रियया सह सम्बन्धः अस्तीति ज्ञायते । एवम् अन्यकारकादौ अपि ज्ञेयम् ।

एतानि षट् कारकाणि स्मर्तुम् अयं सरलः श्लोकः -

कर्ता कर्म च करणं सम्प्रदानं तथैव च ।

अपादानाधिकरणम् इत्याहुः कारकाणि षट् ॥ इति ।

कर्तृकारकम्

“स्वतन्त्रः कर्ता”(१.४.५४) इति सूत्रेण कर्तृसंज्ञा विधीयते । क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति अस्य सूत्रस्य अर्थः । स्वातन्त्र्यं नाम व्यापाराश्रयत्वम् । एवञ्च व्यापाराश्रयः कर्ता इति फलितोऽर्थः । फलं व्यापारश्च धात्वर्थः । तत्र व्यापारस्य यः आश्रयः, सः कर्ता भवति । उदा – गोविन्दः पचति । पच्-धातोरर्थः – पाकव्यापारः(पाकक्रिया) । सा क्रिया पाचके अस्ति । तथा च पाकक्रियायाः आश्रयः गोविन्दः । अतः गोविन्दः कर्ता । धात्वर्थः – फलं व्यापारः च इति उक्तम् । तत्र व्यापारस्य यः आश्रयः सः कर्ता भवाति । यथा –सूदः पचति । पच् धातोरर्थः =पाकक्रिया (पाकव्यापारः) । सा क्रिया कुत्र अस्ति ? सूदे अस्ति । तथा च पाकक्रियायाः आश्रयः सूदः । अतः सूदः कर्ता ।

उदाहरणम्

  1. बालः खादति । खाद्धातोः अर्थः भक्षणक्रिया । सा क्रिया बाले अस्ति । अतः क्रियायाः आश्रयः बालः । अतः बालः कर्ता ।

  2. वटुः लिखति । लिखधातोः अर्थः लेखनक्रिया । सा क्रिया वटौ अस्ति । अतः लेखनक्रियायाः आश्रयः वटुः । अतः वटुः कर्ता ।

  3. सूर्यः प्रकाशते । धात्वर्थः प्रकाशनक्रिया । सा क्रिया सूर्ये अस्ति । अतः प्रकाशनक्रियायाः आश्रयः सूर्यः । अतः सूर्यः कर्ता ।

 

कर्मकारकम्

कर्तुरीप्सिततमं कर्म -१.४.४९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञं स्यात् इति सूत्रार्थः । कर्ता काञ्चित् क्रियां निर्वर्तयति । तया क्रियया किञ्चित् फलं जायते । तच्च फलं यत्र सम्बध्दं भवतु इति इच्छति तत् कर्मसंज्ञां प्राप्नोति । तथा च कर्ता स्वक्रिया (प्रयोज्य) जन्यफलेन सम्बन्धुम् इष्यमाणं कारकं कर्मसंज्ञं स्यात् इति फलितोऽर्थः । यथा – सूदः तण्डुलंअ पचति । अत्र पचधातोः अर्थः विक्लित्तिरुपं फलं, तदनुकूलक्रिया च । पाकक्रियायाः आश्रयः सूदः । अतः सूदः कर्ता । कर्तुः सूदस्य पाकक्रियाजन्यविक्लित्तिरुपफलेन सम्बन्धुम् इष्यमाणः तण्डुलः । अतः तण्डुलः कर्म भवति ।

इदं मनसि आकलनीयम् – अत्र सूदः पाकक्रियां निर्वर्तयति । तण्डुले विक्लित्तिरुपः विकारः जायते । स्वपाकक्रियया तण्डुले विक्लित्तिरुपः विकारः (विक्लित्तिरुपं फलं जायताम् इति इच्छया एव सूदः प्रवर्तते’ इति )

उदाहरणम्

  1. बालः ग्रामं गच्छति । गम्धातोः अर्थः संयोगरुपं फलं, तदनुकूलक्रिया च । गमनक्रियायाः आश्रयः बालः । अतः बालः कर्ता । कर्तुः बालस्य गमनक्रियाजन्यसंयोगरुपफलेन सम्बन्धुम् इष्यमाणः ग्रामः । अतः ग्रामः कर्म भवति (गमनं नाम पूर्वदेशस्य त्यागः, उत्तरदेशस्य प्राप्तिः । बालः स्वगमनेन ग्रामे स्वसंयोगो भवतु इति इच्छति ।)

  2. चैत्रः कूपं खनति । खनधातोः अर्थः अवदारणरुपं फलं, तदनुकूलक्रिया च । खननक्रियायाः आश्रयः चैत्रः । अतः चैत्रः कर्ता । कर्तुः चैत्रस्य खननक्रियाजन्य –अवदारणरुपफलेन सम्बन्धुम् इष्यमाणः कूपः । अतः कूपः कर्म भवति ।

  3. भक्तः हरिं भजति । भज्धातोः अर्थः तुष्टिरुपं फलं, तदनुकूलक्रिया च । भजनक्रियायाः आश्रयः भक्तः । अतः भक्तः कर्ता । कर्तुः भक्तस्य भजनक्रियाजन्यतुष्टिरुपफलेन सम्बन्धुम् इष्यमाणः हरिः । अतः हरिः कर्म भवति (भजनं नाम पूजनाइपरिचरणात्मिका क्रिया । परिचरणात्मिकां क्रियां भक्तः करोति । तया परिचरणात्मकक्रियया हरौ तुष्टिः भवति । भक्तः भजनक्रियया हरौ तुष्टिरुपं फलं भवतु इति इच्छया खलु प्रवर्तते ।)

इदमवधेयम्

सर्वेषां धातूनाम् अर्थः – फलं क्रिया च । धातवश्च सकर्मकाः अकर्मकाश्चेति द्विधा । तत्र सकर्मकधातुः यदा प्रयुज्यते तदा फलम् एकत्र भवति, क्रिया अन्यत्र भवति । फलं यत्र भवति सः कर्म । अतः एव फलाश्रयः कर्म इत्युच्यते । क्रिया यत्र भवति सः कर्ता । अतः एव क्रियाश्रयः कर्ता इत्युच्यते । यथा-सूदः तण्डुलं पचति । पच्धातोः अर्थः विक्लित्तिरुपं फलं तदनुकूलक्रिया च । विक्लित्तिः तण्डुले । अतः तण्डुलः कर्म । क्रिया सूदे । अतः सूदः कर्ता । अकर्मकधातुः यदा प्रयुज्यते तदा फलं क्रिया च कर्तरि एव भवतः । यथा –चन्द्रः वर्धते । वृध्धातोः अर्थः – वृध्दिरुपं फलं तदनुकूलक्रिया च । एतदुभयमपि कर्तरि चन्द्रे एव वर्तते ।

करणकारकम्

साधकतमं करणम्- १.४.४३ क्रियासिध्दौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् इति सूत्रार्थः । यत् स्वव्यापारसमनन्तरमेव फलोत्पादकं तत्करणमिति फलितोऽर्थः । यथा –रामः बाणेन रावणं हन्ति । हन्धातोर्थः – प्राणवियोगरुपं फलं तदनुकूलक्रिया च । हननक्रिया श्रयः रामः । अतः सः कर्ता । प्राणवियोगरुपं फलं रावणे अस्ति । फलाशयत्वात् रावणः कर्म । धनुषः मुक्तः बाणः गच्छन् रावणं विध्यति (प्रवोशति)। समनन्तरमेव प्राणवियोगः (फलम्) रावणे भवति । बाणस्य प्रवेशनव्यापारसमनन्तरमेव प्राणवियोगरुपं फलम् उत्पन्नम् । अतः बाणः स्वव्यापारसमनन्तरम् एव प्राणवियोगरूपफलोत्पादकः अस्तीति बाणः करणम् । अतः प्रकृष्टोपकारकं नाम=स्वव्यापारसमनन्तरं फलोत्पादकम् एव इति ज्ञेयम् ।

उदाहरणम्

  1. देवदत्तः परशुना वृक्षं छिनत्ति । छिदधातोरर्थः विदारणरुपफलं, तदनुकूलक्रिया च । क्रियाश्रयो देवदत्तः कर्ता । विदारणरुपं फलं वृक्षे अस्ति । अतः फलाश्रयत्वात् वृक्षः कर्म । देवदत्तः हस्ताभ्यां परशुम् उपरि नीत्वा अधः पातयति । अनेकशः उपरिनयनाधः पातनव्यापारसमनन्तरम् एव वृक्षे विदारणरुपं फलम् उत्पन्नम् । अतः परशुः स्वव्यापारसमनन्तरम् एव विदारणरुपफलोत्पादकः अस्ति इति परशुः करणम् ।
  2. बालः पादाभ्यां गृहं गच्छति । गम्धातोरर्थः –उत्तरदेशसंयोगः तदनुकूलक्रिया च । क्रियाश्रयः बालः कर्ता । संयोगरुपं फलं गृहे अस्ति । अतः फलाश्रयत्वात् गृहं कर्म । बालः पादौ उद्धृत्य निक्षिपति । अनेकशः उध्दरणनिक्षेणव्यापारसमनन्तरमेव गृहे संयोगः उत्पन्नः । अतः पादौ स्वव्यापारसमनन्तमेव संयोगरुफलोत्पादकौ स्तः इति पादौ करणम् ।

सम्प्रदानकारकम्

कर्मणा यमभिप्रैति स सम्प्रदानम् -१.४.३२. कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रार्थः ।

कर्मणा सम्बन्धुं यम् अभिप्रैति (इच्छति) सः सम्प्रदानं स्यादिति फलितार्थः । देयद्रव्योद्देश्यं सम्प्रदानमिति तात्पर्यार्थः । यथा- पिता मोदकं बालाय ददाति । दाधात्वर्थः हस्तादौ स्थापनरुपं फलं तदनुकूलक्रिया च । आनक्रियाश्रयः पिता कर्ता । स्थापनरुपं फलं मोदके । अतः मोदकः कर्म । कर्मभूतेन तेन मोदकेन पिता कं सम्बन्धुम् अभिप्रैति ? कर्मभूतेन मोदकेन बालं सम्बन्धुम् अभिप्रैति । अतः सः बालः सम्प्रदानं भवति (कर्मभूतं वस्तु यम् अधिगच्छति सः सम्प्रदानं भवति । अत्र कर्मभूतं वस्तु मोदकः बालकम् अधिगच्छति । अतः बालः सम्प्रदानम् )

उदाहरणम्

खण्डिकोपाध्यायः शिष्याय चपेटां ददाति । दाधात्वर्थः संयोगरुपं फलं, तदनुकूलव्यापारश्च । क्रियाश्रयः खण्डिकोपाध्यायः कर्ता । चपेटा नाम प्रसृतकरतलम् । संयोगरुपं फलं चपेटायाम् । अतः चपेटा कर्म भवति । कर्मभूतया चपेटया कं सम्बन्धुम् अभिप्रैति ? कर्मभूतया चपेटया शिष्यम् अभिसम्बन्धुम् अभिप्रैति । अतः शिष्यः सम्प्रदानम् (कर्मभूता चपेटा शिष्यं खलु अधिगच्छति । अतः सः सम्प्रदानम् ।)

  1. चैत्रः रजकाय वस्त्रं ददाति । दाधात्वर्थः अधीनीकरणं, तदनुकूलक्रिया च । क्रियाश्रयः चैत्रः कर्ता । अधीनीकरणरुपं फलं वस्त्रे । अतः वस्त्रं कर्म । कर्मभूतेन वस्त्रेण कं सम्बन्धुम् अभिप्रैति ? कर्मभूतेन वस्त्रेण रजकं सम्बन्धुम् अभिप्रैति, अतः रजकः सम्प्रदानम् (कर्मभूतं वस्त्रं रजकं खलु अधिगच्छति । अतः रजकः सम्प्रदानम् )
  2. राजा विप्राय गां ददाति । दाधात्वर्थः स्वस्वत्त्वनिवृत्तिपूर्वकपरस्वत्वारोपणं, तदनुकूलक्रिया च । दानक्रियाश्रयः राजा कर्ता । स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वारोपणं गवि । अतः गौः कर्म । कर्मभूतया गवा राजा कं सम्बन्धुम् अभिप्रैति ? कर्मभूतया गवा विप्रम् अभिसम्बन्धुम् अभिप्रैति । अतः विप्रः सम्प्रदानम् (कर्मभूता गौः विप्रं खलु अधिगच्छति । अतः विप्रः सम्प्रदानम् ।)

प्रवेश पटलं

वार्ताः


श्री भवानी अष्टकम

 ॥**अन्नकूट महोत्सव की ह्रदय से हार्दिक शुभकामनाएं*

*श्री भ [ ... ]

अधिकम् पठतु
भगवान धनवंतरि कौन

कार्तिक कृष्ण पक्ष की त्रयोदशी तिथि के दिन भगवान धन्वन्त [ ... ]

अधिकम् पठतु
सप्तशती विवेचन

|| सप्तशती विवेचन ||
मेरुतंत्र में व्यास द्वारा कथित तीनो च [ ... ]

अधिकम् पठतु
धनतेरस २०१७ विशेष

धनतेरस 2017 :-
यह पर्व प्रति वर्ष कार्तिक मास के कृष्णपक्ष की  [ ... ]

अधिकम् पठतु
दीपावली के अचूक मंत्र...

🌻🌻दीपावली के अचूक मन्त्र 🌻🌻
दीपावली कि रात्रि जागरण कि  [ ... ]

अधिकम् पठतु
धनतेरस की हार्दिक शुभकामनाएं- जानें धनतेरस पूजन वि...

©*धनतेरस पूजन विधि*
( घर में धन धान्य वृद्धि और सुख शांति के  [ ... ]

अधिकम् पठतु
उपमालङ्कारः

उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस [ ... ]

अधिकम् पठतु
रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य म [ ... ]

अधिकम् पठतु
शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
अन्य लेख
© 2017 Devwani Group . All Rights Reserved.