शाब्दबोधः

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

शाब्दबोधः नाम कः ? शब्दस्य अयं शाब्दबोधः । शब्दजन्यः इत्यर्थः । शब्दश्चासौ बोधश्च शाब्दबोधः । शब्दजन्यम् अर्थज्ञानम् इत्यर्थः । अत्र शब्दपदेन वाक्यं गृह्यते । वाक्यं नाम परस्परसाकाङ्क्षः क्रियान्वितः पदसमूहः । आकाङ्क्षा नाम एकपदार्थज्ञाने जाते अस्य अन्वयार्थः कः ? इत्येवंरूपा जिज्ञासा । यथा – देवदत्तो गाम् आनयति इत्येकं वाक्यम् । अत्र देवदत्तः इत्युक्तौ – सः किं करोति इति तदन्वयार्थस्य जिज्ञासा जायते । सा च आनयति इति क्रियापदेन निवर्तते । पुनश्च – काम् आनयति ? इत्याकाङ्क्षा गाम् इत्यनेन पूर्यते । एवम् गाम् इत्युक्तौ आनयति इत्युक्तौ च अन्यार्थयोराकाङ्क्षा जायते । यत्र द्वारम् इत्येकं पदं प्रयुज्यते तत्रापि पिधेहि त्वम् इति अध्याहारः । अत एव पदसमूह एव वाक्यमित्युक्तम् । यत्र पिधेहि इत्येकं पदं तत्र द्वारम् इति अध्याहारः । अत एव पदसमूहो वाक्यमित्युक्तम् । एवञ्च शाब्दबोधो नाम वाक्यार्थज्ञानमित्युक्तं भवति । परस्परं विशेष्यविशेषणभावमापन्नाः पदार्थाः शाब्दबोधे गोचरीभवन्ति । तत्र एकः पदार्थः विशेषणम्, अपरः विशेष्यः, तदेव विशेष्यं स्वेतरपदार्थं प्रति विशेषणम् अपि भवति । एवं स्थिते सर्वपदार्थैः विशेष्यमाणः मुख्यपदार्थः कः ? शाब्दबोधाकारः कीदृश इति प्रश्नः ।

नैयायिकमतम्

प्रथमान्तार्थमुख्यविशेष्यकः शाब्दबोधः इति नैयायिकाः । ‘लः कर्मणि च भावे च अकर्मकेभ्यः’ इति सूत्रे अनुवृत्तस्य कर्तरि इत्यस्य कर्तृत्वम् इत्यर्थः । कर्तृत्वं नाम कृतिः । कृतिः नाम यत्नः, न तु व्यापारः । धातोः तु फलं व्यापाराश्च अर्थः । तिङर्थस्य कृतेः आश्रयतासम्बन्धेन प्रथमान्तार्थे अन्वयः । चैत्रः तण्डुलं पचति इत्यत्र तण्डुलनिष्ठविक्लित्त्यनुकूलव्यापारसहितकृत्याश्रयः चैत्रः इति शाब्दबोधम् आहुः । कर्मणि प्रयोगे तु तिङर्थः कर्मत्वम् । कर्मत्वञ्च फलाश्रयत्वम् । फलस्य धातुलभ्यत्वेन आश्रयत्वमेव तिङर्थः इति पर्यवस्यति । चैत्रेण पच्यते ओदनः इत्यत्र चैत्रनिष्ठकृतिजन्यव्यापारजन्यविक्लित्त्याश्रयः ओदनः इति बोधः । चैत्रेण सुप्यते इति भावे प्रयोगे तु प्रथमान्तपदाभावात् अगत्या चैत्रकर्तृकः स्वापः इति बोधम् अङ्गीकुर्वन्तः वैयाकरणमतं प्रविशन्ति । भावनाविशेष्यकः शाब्दबोधः इति मीमांसकाः ।

वैयाकरणमतम्

वैयाकरणास्तु धात्वर्थमुख्यविशेष्यकं शाब्दबोधम् उररीकुर्वन्ति ।

१. चैत्रो ग्रामं गच्छति इत्यत्र उत्तरदेशसंयोगानुकूलव्यापारो गमेरर्थः । ग्रामनिष्ठसंयोगानुकूलः चैत्राभिन्नकर्तृनिष्ठः वर्तमानकालिकः व्यापारः इति बोधः ।

२. घटं जानाति इत्यत्र ज्ञानानुकूलः आत्ममनःसंयोगरूपव्यापारो धात्वर्थः । ज्ञानं विषयतासम्बन्धेन घटे वर्तते । घटविषयकज्ञानानुकूलः आत्ममनःसंयोगरूपव्यापारः इत्यर्थः ।

३. घटं नाशयति इत्यत्र प्रतियोगित्वं द्वितीयार्थः । घटप्रतियोगिकनाशानुकूलव्यापारः इत्यर्थः।

४. चैत्रेण पच्यते तण्डुलः इत्यत्र चैत्रकर्तृकव्यापारजन्यतण्डुलनिष्ठविक्लित्तिः इति बोधः । प्राचीनवैयाकरणमते तु कर्मणि प्रयोगे अपि व्यापारविशेष्यको बोधः इति विशेषः । तेषां मते कर्माभिन्नतण्डुलविक्लित्त्यनुकूलः चैत्रकर्तृको व्यापारः इति बोधः ।

५. धान्येन धनवान् इत्यत्र अभेदः तृतीयार्थः । अस्ति इति अध्याहारः । धान्याभिन्नधनवत्पुरुषनिष्ठसत्ता इति बोधः ।

६. विप्राय गां ददाति – स्वस्वत्वध्वंसपूर्वकपरस्वत्वानुकूलव्यापारो दाधात्वर्थः । उद्देश्यत्वं चतुर्थ्यर्थः । गोरूपकर्मणः आश्रयतासम्बन्धेन परस्वत्वशब्दे विद्यमाने स्वत्वरूपफले अन्वयः । गोवृत्तिस्वस्वत्वध्वंसपूर्वकविप्रस्वत्वानुकूलः विप्रोद्देश्यको व्यापारः इति बोधः ।

७. वृक्षात् पर्णं पतति इत्यत्र अवधित्वं पञ्चम्यर्थः । अधोदेशसंयोगानुकूलः संयोगसमानाधिकरणव्यापारो पतधात्वर्थः । अत्र पतधातुः अकर्मकः । वृक्षावधिकः पर्णनिष्ठाधोदेशसंयोगानुकूलव्यापार इति बोधः । यदा तु संयोगव्यधिकरणव्यापारोऽर्थः तदा पतधातुः सकर्मकः । नरकं पतति इति प्रयोगदर्शनात् । नरकनिष्ठसंयोगानुकूलव्यापार इति बोधः ।

८. पर्वतो वह्निमान् धूमात् – अत्र धूमशब्दः धूमज्ञाने लाक्षणिकः । हेतौ पञ्चमी । ज्ञापकत्वमत्र हेतुत्वम् । ज्ञाप्यत्वं पञ्चम्यर्थः । तस्य वह्निमत्पदार्थैकदेशे वह्नौ अन्वयः । धूमज्ञानज्ञाप्यवह्निमदभिन्नः पर्वतः अस्ति इति बोधः ।

९. षष्ठ्यर्थाः सम्बन्धाः बहवः ।

• शास्त्रस्य ज्ञानम् इत्यत्र विषयत्वं षष्ठ्यर्थः । शास्त्रविषयकं ज्ञानमिति बोधः ।

• शत्रोः नाशः इत्यत्र प्रतियोगित्वं षष्ठ्यर्थः । शत्रुप्रतियोगिकः नाशः इति बोधः ।

• घटस्य कारणमित्यत्र घटनिरूपितकारणतावान् इति बोधः ।

• राज्ञः पुरुषः इत्यत्र स्वामितानिरूपितस्वत्ववान् इति बोधः ।

• गुरोः वाक्यम् इत्यत्र गुरूच्चरितं वाक्यम् इति बोधः।

१०. भूतले घटः इत्यत्र आधेयत्वं सप्तम्यर्थः । भूतलनिष्ठः घटः इति बोधः ।

११. पश्य मृगो धावति इत्यत्र क्रियापदद्वयसत्त्वे अपि एकवाक्यता । मृगकर्तृकं धावनं दृशिक्रियायाः कर्म, प्रधानं दृशिक्रिया । पश्य इति आज्ञार्थे लोट् । आज्ञा नाम प्रेरणा । तस्याः विषयतासम्बन्धेन दर्शने अन्वयः । त्वम् इति अध्याहारः । मृगकर्तृकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शनम् इति शाब्दबोधः । प्रथमान्तमुख्यविशेष्यकशाब्दबोधाङ्गीकारे तु मृगपदात् द्वितीयाप्रसङ्गः ।

१२. चैत्रः हसति इत्यत्र मुखविकासानुकूलव्यापारविशेषः हस्-धात्वर्थः । मुखविकासः फलम् । चैत्रनिष्ठः मुखविकासानुकूलव्यापारः इति बोधः ।

१३. चैत्रेण शय्यते इति भावे प्रयोगे चैत्रकर्तृकं शयनम् इति बोधः ।

१४. चैत्रेण शयितव्यम् इत्यत्र चैत्रकर्तृकप्रेरणाविषयीभूतं शयनम् इति बोधः ।

नञ्-घटितस्थलेषु शाब्दबोधः

१. बालो न गच्छति इत्यादौ नञ्-घटिततिङन्तस्थलेऽपि धात्वर्थव्यापारस्य प्रवृत्तिनिमित्ते एव आरोपः । बालाभिन्नकर्तृनिष्ठारोपितसंयोगानुकूलव्यापारः इति बोधः जायते । बालस्य गमनाभावः इति तात्पर्यार्थः ।

२. पाचकः तण्डुलं न पचति इत्यत्र पाचकनिष्ठतण्डुलवृत्तिविक्लित्त्यनुकूलः आरोपितव्यापारः इति शाब्दबोधः ।

३. वायौ रूपं नास्ति इत्यत्र रूपकर्तृका आरोपितवाय्वधिकरणत्विका सत्ता इति बोधः ।

४. पीतः शङ्खो नास्ति इत्यत्रापि शङ्खकर्तृका आरोपितपीतकर्तृत्विका सत्ता इति बोधः ।

५. न पलाण्डुं भक्षयेत् इत्यत्र आरोपितं पलाण्डुकर्मकं भक्षणं प्रेरणाविषयीभूतम् इति बोधः । पलाण्डुभक्षणाभावः प्रेरणाविषयः इति तु फलितार्थः ।

६. भूतले घटो नास्ति इत्यत्र तु भूतलवृत्तिघटकर्तृका आरोपिता सत्ता इति शाब्दधीः जायते ।

७. पटभिन्नो घटः इत्यर्थे घटो न पटः इति यदा प्रयुज्यते तदा आरोपितपटत्ववदभिन्नः घटः इति बोधः जायते ।

८. अब्राह्मणः क्षत्रियः इत्यस्मात् वाक्यात् क्षत्रियवृत्तिभेदप्रतियोगी ब्राह्मणः इति बोधः । ब्राह्मणभिन्नः क्षत्रियः इति बोधस्तु पश्चात्कालिकः ।

वैयाकरणमतन्तु यास्कपतञ्जल्यादिमुनिजनानुभवसिद्धम् इति विशेषः ।

देववाणी एंड्रायड एप डाउनलोड

वार्ताः


११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है...* ...

*११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है...* =================================== च [ ... ]

अधिकम् पठतु
आपकी राशि के अनुसार शिव अर्चना...

आपकी राशि और शिव पूजा शिव पुराण में उल्लेख हैं की महाशिवर [ ... ]

अधिकम् पठतु
बुद्ध और ब्राम्हण

बुद्ध और ब्राह्मण मूलनिवासी अकसर ब्राह्मणों को कोसते है [ ... ]

अधिकम् पठतु
सोमवार के ही दिन शिव की पूजा क्यों करते हैं जानें ...

🌿🌸🍃🌺🌿🌸🍃🌺🌿🌸🍃 *क्यों सोमवार" को ही *भगवान शिव की पूजा कर [ ... ]

अधिकम् पठतु
जानें महाशिवरात्री का वैज्ञानिक पहलू एवं छ्मा मंत्...

💐✍💐 *जानें महाशिवरात्रि का वैज्ञानिक पहलू और क्षमा मन्त [ ... ]

अधिकम् पठतु
रावण पराजय और सीता हरण क्यों...

*“ रावण - पराजय और सीता - हरण क्यों ?
“* नारायण ! श्रीमद् देवीभ [ ... ]

अधिकम् पठतु
महाशिवरात्री व्रत कथा...

महा देव औरशिवरात्रि जप तप ब्रतकी कथा पूर्व काल में चित्रभ [ ... ]

अधिकम् पठतु
एक रोचक कथा - पंडित अजय भारद्वाज द्वारा...

हमारे मन में बहुत बार यह ख्याल आता है कि क्या वो मालिक/ भगव [ ... ]

अधिकम् पठतु
महाशिवरात्रि 2018: तिथि को लेकर संशय दो तारीखों मे...

महाशिवरात्रि 2018: तिथि को लेकर संशय, कब निकलेगी भोलेनाथ की ब [ ... ]

अधिकम् पठतु
कमला सोहोनी

कमला सोहोनी १०१२ तमे वर्षे अजायत । तस्याः पिता नारायणराव [ ... ]

अधिकम् पठतु
कर्कटी (राक्षसी)

ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभाव [ ... ]

अधिकम् पठतु
कपिलः (ऋषिः)

ऋषिः कपिलः सांख्यदर्शनस्य प्रवर्तकः अस्ति । भागवतपुराण [ ... ]

अधिकम् पठतु
कनकदासः


कनकदासः (Kanaka Dasa) श्रेष्ठः कीर्तनकारः । (Kannada:ಕನಕದಾಸರು)कर्णाटक [ ... ]

अधिकम् पठतु
कठसंहिता

कठसंहिता यजुर्वेदस्य सप्तविंशति-शाखासु अन्यतमाऽस्ति ।  [ ... ]

अधिकम् पठतु
कठोपनिषत्

कठोपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा । कठोपनिषदः  [ ... ]

अधिकम् पठतु
अन्य लेख