यजुर्वेदम्

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

यजुर्वेदम्

Loading...

 

यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च । पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।

 

वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवला मन्त्रा विद्यन्ते, कृष्णयजुर्वेदे तु विनियोग वाक्यानि मन्त्राश्च । अतोऽमिश्रितरूपतया शुक्लयजुर्वेदः, मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि लोकाः कथयन्ति ।

 

सोऽयं यजुर्वेदः ४० अध्यायान्, ३०३ अनुवाकान्, १९७५ कण्डिका (मन्त्रान्), २९६२५ शब्दान्, ८८८७५ अक्षराणि च बिभर्ति । अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीयेऽग्निहोत्रं चातुर्मास्येष्टिः, चतुर्थाध्यायादष्टादशाध्यायपर्यन्तम् अग्निः चयनम्, उखाभरणम्, चितयः रुद्रहः, शतरुद्रियम् वसोर्धारा, राष्ट्रभृच्च । एकोनविंशतितमाध्यायात् परिशिष्टमारभ्यते, विशे एकविंशे च सोमसम्पादनविधिः, तदनु पञ्चविंशतिपर्यन्तमश्वमेधः ततः शेषे भागे पुरुषमेधसर्वमेधपुतृमेधादिविवरणञ्च प्रपञ्चितम् । अन्तिमश्चाध्याय ईशावास्योपनिषद्रूपः ।

 

शुक्लयजुर्वेदस्य वाजसनेयिसंहिता कथ्यते । तादृशनामकरणे बीजं त्विदं कथ्यते यत् याज्ञवल्क्येनाराधितः सूर्यो वाजी भूत्वा तस्मै वेदं प्रोक्तवान् अतस्तदुक्ता संहिता वाजसनेयी संहिता समाख्याता । शुक्लयजुर्वेदस्य माध्यन्दिनशाखा कण्वशाखा चेति द्वे शाखे । प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे । अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः , बहुष्वंशेषु तुल्यता वर्त्तते । कृष्णयजुर्वेदस्य चतस्रः शाखा-प्राप्यन्ते –

 

तैत्तिरीयशाखा –इयं प्रधानशाखा, अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्याया, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठका बहुष्वनुवाकेषु विभक्ताः सन्ति ।

मैत्रायणीसंहिता इमे द्वे अपि संहिते तैत्तिरीय –संहितामनुकुरुतः,

काठकसंहिता केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते ।

आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते ।

 

कृष्‍णयजुर्वेद:

शुक्‍लयजुर्वेद:

वार्ताः


  • अजीत डोभाल सेना की शान

    आजकल NSA अजित डोभाल जी की बहुत चर्चा है देश विदेश में । कोई उन्हें supercop लिख रहा है तो कोई James Bond । 1984 में जब अमृतसर के स्वर्ण मंदिर में operation Blue star हुआ तो उसकी बहुत बड़ी कीमत चुकानी पड़ी देश को । उसकी प्...
  • संस्कृतस्य अधुनिक संजालस्थानम्

    संस्कृते विद्द्ममानाः सूक्तयःअभ्युदयाय प्रेष्यन्ति,यथा - सत्मेव जयते,वसुधैव कुटुम्बकम्, इत्यादयः।सर्वभूतेषु आत्मवतं व्यवहारंकर्तुं संस्कृत भाषा सम्यक् शिक्षयति।महापुरूषाणां मतिः,उत्मजनानां धृतिः जीवनपद्धतिः च वर्णितः सन्त...
  • चरक संम्हितां

    परिचयः चरकसंहिता आयुर्वेदस्य श्रेष्ठतमः ग्रन्थः। अस्य रचयिता महान् चिकित्साचार्यः चरकः। चरकसंहितायाः आरम्भे आयुर्वेदस्य अवतरणं कथं जातमिति वर्णितमस्ति । तस्य अनुसारं ब्रह्मा प्रजापतिं, प्रजापतिः अश्विनीकुमारम्, अश्विनीकुम...
  • अथर्ववेदम्

    अथर्ववेदम् १ खण़्ड अथर्ववेदम् 2 खण़्ड अभिचारक्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते । अथर्ववेदे २० काण्डानि, ७३१ सूक्तानि, ५९८७ मन्त्रा विद्यन्ते । एषु मन्त्रेषु द्वादशशतमन...
  • यजुर्वेदम्

    यजुर्वेदम् यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्...
  • ई.वी.एम. और चुनाव व इनके तरीके आप भी जानें

    E.V.M. and Election 1. B.U.and C.U. को बक्से से निकाल कर उसके सील एवं address tag की जांच करे । 2. B.U. के Cable को C.U के पिछले हिस्से में स्थित socket से जोड़ कर switch on करे । 3. E.V.M. के नंबर एवं इसकी Battery Status...
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित