अर्णोराज चौहान

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

अर्णोराज चौहान ( ( शृणु) /ˈərnoʊrɑːjə xɔːhɑːnə/) (हिन्दी: अर्णोराज चौहान, आङ्ग्ल: Arnoraj Chauhan) शैवमतानुयायी आसीत् । अर्णोराजः अनलः, आवेल्लदेवः, आनाकः इत्यपि प्रसिद्धः आसीत् । अर्णोराजेन एव पुष्करस्य सुप्रसिद्धं वराहमन्दिरं निर्मापितम् । हेमचन्द्र सूरि इत्यस्य पराशक्त्याः वशो भूत्वा अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः स्वपितुः हत्याम् अकरोत् । सः स्वयं राजत्वेन सिंहासनस्योपरि आधिपत्यम् अस्थापयच्च । परन्तु अर्णोराजस्य द्वितीयपुत्रेण विग्रहराजेन जगद्देवः पराजितः । एवं विग्रहराजस्य आधिपत्ये समादलक्ष-प्रदेशस्य सम्पूर्णं राज्यम् आसीत् । विग्रहराजः स्वपितुः अपमानस्य वैरोद्धारम् अपि अकरोत् ।

जन्म, परिवारश्च

११७० तमे विक्रमसंवत्सरे अर्णोराजस्य जन्म अभवत् इति इतिहासविदां मतम् । अर्णोराजस्य पितुः नाम अजयराजः, मातुश्च नाम सोमल्लदेवी आसीत् । अर्णोराजस्य द्वे भार्ये आस्ताम् । मारोठ-राज्यस्य राजकन्या सुधवा, सिद्धराजस्य पुत्री काञ्चनदेवी च । सुधवायाः त्रीणि अपत्यानि आसन् । तानि जगद्देवः, विग्रहराजः (चतुर्थः), देवदत्तश्च । काञ्चनदेव्याः एकः पुत्रः आसीत् । तस्य नाम सोमेवश्वरः आसीत् [१] ।

 

शासनम्

अर्णोराजः यदा सत्तारूढः अभवत्, तदा तस्य आयुः केवलं विंशतिः (२०) वर्षाणि आसन् । युवा अर्णोराजः यदा सम्राट् अभवत्, तदा विजेतृत्वेन तस्य ख्यातिः अभवत् । युवावस्थायां शक्तिशालिशासकत्वेन तस्य कीर्तिः आसीत् । यद्यपि अर्णोराजः अत्यन्तं शौर्यशाली राजा आसीत्, तथापि गुजरातराज्यस्य चालुक्यवंशीयस्य कुमारपालस्य, सिद्धराजजयसिंहस्य च सम्मुखं यः पराजयः अभवत्, तेन तस्य कीर्तिः धूलिधूसरिता अभवत् । परन्तु तस्य पराक्रमी पुत्रः विग्रहराजः पितुः पराजयस्य वैरोद्धारम् अकरोत् ।

 

विजयावलिः

चौहानप्रशस्तौ, बिजौलिया-शिलालेखे च अर्णोराजस्य विजयावलिः प्राप्यते [२][३]।

 

१. राजधान्याम् अजयमेरौ आक्रमणं कुर्वतां तुरुष्क-वंशीयानां नाशः ।

 

२. मालवा-प्रदेशस्य परमार-शासकं पराजितवान् ।

 

३. सिन्धु-सरस्वती-नद्योः तटपर्यन्तं स्वशासनस्य विस्तारः कृतः ।

 

४. हरितन्का-कुश-वारन-नगरेषु आक्रमणं कृत्वा तेषां प्रदेशानां राज्ञां मानभङ्गः कृतः ।

 

अर्णोराजस्य राजसभायां देवबोध-आख्यस्य गुरोः अति महत्त्वपूर्णं स्थानम् आसीत् । अर्णोराजस्य राज्यसभायामेव श्वेताम्बर-पन्थस्य अनुयायिनः धर्मघोष सूरि इत्यस्य, दिगम्बर-सम्प्रदायस्य गुणभद्रस्य मध्ये शास्त्रार्थः जातः आसीत् । तस्मिन् शास्त्रार्थे गुणभद्रस्य पराजयः अभवत् ।

 

तुरुष्कविजयम् [४]

अर्णोराजस्य प्रप्रथमं विजयं तुरुष्कविजयम् आसीत् । चौहानवंशस्य गजनी-प्रदेशस्य यामिनी-तुर्क-राजसु आदिकालात् वर्चस्वद्वन्द्वः आसीत् । ११३३ ई. तमे वर्षे अर्णोराजः यदा सत्तारूढः अभवत्, तदा सः विंशतिः वर्षीयः आसीत् । अतः नवीनम्, अनुभवहीनं राजानं परास्तं कृत्वा अजयमेरू-प्रदेशस्य उपरि आधिपत्यं स्थापयितुं लाहौर-प्रदेशस्य बहराम शाह-आख्यः (ई. १११७ - ११५८) राजा अजयमेरू-दुर्गस्य उपरि आक्रमणम् अकरोत् । परन्तु अजयमेरू-स्थिते दुर्गे आक्रमणं कर्तुं गतानां तुरुष्काणाम् अर्णोराजेन घोरपराजयः अभवत् । पृथ्वीराजविजये पराजितानां तुरुष्काणां वर्णनं प्राप्यते यत् – अजयमेरूतः निर्गतः अर्णोराजः तुर्कसेनारूपिसमुद्रस्य कृते वडवाग्निः अभवत् । तुरुष्काणां धावन्ती सेना अजयमेरू-प्रदेशीयानां सैनिकानाम् आघातेन रक्तरञ्जिता अभवत् । सेनायाः केचन सैनिकाः मृताः केचन कवचस्य भारेण निश्चलाः अभूवन् । कवचभारेण सन्तप्ताः सैनिकाः जलतृष्णायाम् एव मृताः । केचन अश्वग्रीवायाम् आघातं कृत्वा रक्तपानं प्रारभन्त, तथापि तेषां मृत्युः अभवत् । तुरुष्कसेनायाः सैनिकानां शवानि ग्रामस्य मार्गेषु इतस्ततः पतितानि आसन् । दुर्गन्धस्य बाहुल्येन ग्रामजनाः तानि शवानि अज्वालयन् । अनेकानि शवानि गृध्राणाम् आहारम् अभूवन् । शत्रूणां ध्वजाः, वस्त्राणि, आभूषणानि च वीथिकासु, मार्गेषु च विस्तिर्णानि आसन् । तेन अजयमेरू-नगरस्य शोभा विचित्रा अभवत् । यस्मिन् स्थाने युद्धं जातम् आसीत्, तस्य स्थानस्य परिशुद्ध्यै अर्णोराजः तस्मिन् स्थाने तडागस्य निर्माणम् अकारयत् । इन्दुनद्याः जलेन सः तडागः पूरितः । सः तडागः सद्यः अन्नासागरतडागत्वेन प्रसिद्धः अस्ति । इन्दु-आख्या नदी चन्द्रनदी, बाण्डीनदी इत्यपि प्रसिद्धा आसीत् । कुत्रचित् सा लूनी इत्यपि प्रसिद्धा [४] ।

 

मालवाविजयम्त:-

स्मिन् एव समये परमार-शासकेभ्यः जन्मदात्री अवन्ति-नगरी पराभवोन्मुखी आसीत् । अतः प्रतिवेशिराज्येभ्यः अवन्ति-नगरी सैन्यपरिक्षणस्य स्थलम् अभवत् । शाकम्भर्याः अर्णोराजः, गुजरातराज्यस्य जयसिंहः मालवा-प्रदेशस्य अनेकेषु प्रदेशेषु पौनःपुन्येन आक्रमणं कुर्वन्तौ आस्ताम् । अवन्ति-नगर्यां तदा निर्वाणनारायण-आख्यस्य राज्ञः शासनम् आसीत् । सः नरवर्म्मा इत्यपि प्रसिद्धः आसीत् । ११३३ ई. तमस्य वर्षस्य आरम्भिकेषु कालेषु नरवर्मा अर्णोराजेन सह युद्धम् अकरोत् । परन्तु नरवर्मणः पराजये सति तस्य पुत्रः यशोवर्मा मालवा-प्रदेशस्य राजा अभवत् इति इतिहासविदां मतम् [५][६] । अर्णोराजेन अवन्तिनगर्याः महान्भागः स्वाधीनः कृतः । अवशिष्टे भागे यशोवर्मणः शासनम् आसीत् ।

 

सिन्धु-सरस्वती-हरितानक-कुश-वारन-अभियानम्

चौहानप्रशस्तेः चतुर्दश्यां (१४) पङ्क्तौ सिन्धुसरस्वत्यभियानस्य, सप्तदश्यां (१७) पङ्क्तौ हरितानकाभियानस्य वर्णनं प्राप्यते । बिजौलिया-शिलालेखस्य सप्तदशात् (१७) श्लोकात् कुश-वारन-अभियानस्य वर्णनम् आरभते । तुर्काणां गर्वगञ्जनं कृत्वा अवन्ति-नगर्याः महद्भागं स्वायत्तीकृत्य पीलू-प्रदेशम् उपसृत्य च अर्णोराजस्य सेना अग्रे अगच्छत् ।

 

मरुस्थलम् उपसृत्य गच्छन्ती अर्णोराजस्य सेना पिपासया व्याकुला अभवत् । ततः प्रह्लादकूपात् जलं पीत्वा सर्वे तृष्णामुक्ताः अभूवन् । अर्णोराजः विजयाभियाने तु निर्गतः आसीत्, परन्तु इतिहासविदां मतम् अस्ति यत्, तस्य विजयाभियानस्य मुख्यं लक्ष्यं गजनवी-प्रदेशस्य राज्ञां पराजयः आसीत् । यतः ते भारतस्य भूमेः वीकमपुरपर्यन्तं भागं स्वाधीन्ये अकुर्वन् । विजययात्रां अग्रे सारयन्ती अर्णोराजस्य सेना वीकमपुरस्य उत्तरभागे स्थितायाः सतलजनद्याः तटं प्रापत् । सः तटवर्तिप्रदेशः उच्छ इति प्रसिद्धः । उच्छप्रदेशः भट्टिराजपूतानाम् आधिपत्ये आसीत् । भट्टिराजपूताः तुर्क-प्रदेशीयानां राज्ञां सामन्ताः (General) आसन् । हेमचन्द्र सूरि इत्यस्य मतानुसारं तुर्काणां विरुद्धम् अर्णोराजस्य साहाय्यं वाहिकप्रदेशस्य, पूर्वीमद्रस्य च नगरावासिनः अकुर्वन् [७] । अनेन ज्ञायते यत्, पूर्वीमद्रप्रदेशस्य (पूर्वी पञ्जाब), वाहिकप्रदेशस्य (टक्कदेशस्य) च निवासिनः वाल्हीम इत्यस्य समर्थकाः, गजनवी-राज्ञां विरोधिनः आसन् [८] । एवं सिन्धुनद्याः पूर्वदिशः द्वीपे (दोआब क्षेत्रे) अर्णोराजस्य आधिपत्यम् अभवत् ।

 

दोआब-क्षेत्रात् अर्णोराजस्य सेना पूर्वदिशं प्रति अग्रे अगच्छत् । सरस्वतीनद्याः प्रवाहेण सह स्वमार्गे अग्रे चलन्ती अर्णोराजस्य सेना हरितानक-प्रदेशं प्रापत् । इतिहासविदां मतम् अस्ति यत्, बिजौलिया-शिलालेखे कुश-बारन-प्रदेशयोः विजयस्य यत् वर्णनम् अस्ति, तत् हरितानक-प्रदेशस्य उपरि विजयानन्तरस्य वर्णनम् अस्ति इति । हरितानक-प्रदेशस्य उपरि आक्रमणस्य वार्तां श्रुत्वा प्रदेशस्त्रियः क्रन्दनम् आरभन्त । एतद् विवरणं कुत्रचित् प्राप्यते । अनेन ज्ञायते यत्, अर्णोराजस्य सेनायाः शौर्यगाथा चतुसॄषु दिक्षु प्रसिद्धा आसीत् इति । तस्मिन् काले हरितानक-प्रदेशस्य राजधानी यमुनातटे विकसिता ढिल्लिका-नगरी (देहली) आसीत् ।

 

देहल्यां तोमर-राज्ञां पराजयानन्तरं गङ्गातटे स्थितं कुशवारन-प्रदेशे अर्णोराजः आक्रमणम् अकरोत् । तस्मिन् काले कुशवानर-प्रदेशे डोड-राजपूतानां (डोडिया) शासनम् आसीत् । परन्तु डोड-राजपूताः स्वतन्त्रशासकाः नासन्, अपि तु कन्नौज-प्रदेशस्य गाहडवाल-वंशीयस्य गोविन्दचन्द्रस्य (ई. १११०-११५६) सामन्ताः आसन् । इतिहासे वर्णनं प्राप्यते यत्, डोडिया-वंशीयाः राजानः व्यभिचारिणः, पापकर्मिणः च आसन् । अतः अर्णोराजेन तेषां दमनं कृत्वा ते वशिनः कृताः ।

 

सिद्धराजात् पराजितः

साम्भर-आख्यात् स्थलात् छिन्नविच्छिन्नः एकः शिलालेखः प्राप्तोऽस्ति । तस्मिन् शिलालेखे गुजरातराज्यस्य मूलराज-आख्यात् शासकात् सिद्धराजपर्यन्तं सर्वेषां शासकानां वंशावली अङ्किता अस्ति । तस्मिन् शिलालेखे प्रमाणं प्राप्यते यत्, अर्णोराजं पराजित्य सिद्धराजः साम्भर-नागौर-प्रदेशयोः आधिपत्यम् अस्थापयत् इति ।

 

हेमचन्द्र सूरि, सोमेश्वर सूरि इत्यादिभिः गुर्जर्प्रदेशीयैः कविभिः लिखितम् अस्ति यत्, सिद्धराजस्य सम्मुखम् अर्णोराजः आत्मसमर्पणम् अकरोत् इति । सोमेश्वरलिखितायां कीर्तिकौमुद्याम् उल्लेखितं यत्, इतस्ततः शत्रूणां शिरांसि दृष्ट्वा शङ्किता शाकम्भरी-नगरी अपि स्वशिरं समार्पयत् [९] । ततः सिद्धराजः स्वपुत्र्याः विवाहम् अर्णोराजेन सह अकारयत् ।

 

पराजितेन युवकेन सह स्वपुत्र्याः पाणिग्रहणं सर्वेषां मनसि कौतूहलम् उत्पादयति । परन्तु इतिहासविदां मतम् अस्ति यत्, अर्णोराजः, सिद्धराजश्च मालवा-प्रदेशस्योपरि आधिपत्यं प्रतिष्ठापयितुं क्रियाशीलौ आस्ताम् । अतः सिद्धराजेन युवार्णोरजेन सह मैत्रीसम्बन्धः स्थापितः । ततः पुत्र्याः विवाहं तेन सह कारयित्वा सिद्धराजः मैत्रीसम्बन्धस्य पुष्टताम् अकरोत् ।

 

काञ्चनदेव्याः अर्णोराजेन सह जातेन विवाहेन चौहान-चालुक्यवंशयोः कटुतायां स्वल्पेभ्यः वर्षेभ्यः विरामः अभवत् । परन्तु १२०० विक्रमसंवत्सरे सिद्धराजस्य मृत्योः अनन्तरं तस्य उत्तराधिकारित्वेन सत्तां प्राप्तुं वंशयोः पुनः युद्धम् आरब्धम् ।

 

कुमारपालात् पराजितः

अर्णोराजः सफलः योद्धा आसीत्, परन्तु कुमारपालस्य सम्मुखं द्वयोः युद्धयोः सः पराजितः । अर्णोराजस्य पराजयः कुमारपालस्य शासनकालस्य महत्त्वपूर्णः प्रसङ्गः आसीत् । गुजरातराज्यस्य गौरवपूर्णविजयत्वेन अनेकैः गुर्जरप्रदेशीयैः कविभिः तस्य प्रसङ्गस्य वर्णनं कृतम् अस्ति ।

 

१२०० विक्रमसंवत्सरे यदा सिद्धराजस्य मृत्युः अभवत्, तदा उत्तराधिकारस्य कृते युद्धम् आरब्धम् । हेमचन्द्र सूरि तथा अन्यजैनमतानुयायिनः भीमदेवस्य (प्रथमः) वंशजस्य कुमारपालस्य पक्षधराः आसन् । एवं जैनपक्षः शक्तिशाली असिद्ध्यत् । येन केन प्रकारेण हेमचन्द्र सूरि इत्यस्य शिष्यः कुमारपालः गुजरातराज्यस्य सत्तां प्राप्तुं सफलः अभवत् । तथापि गुजरातराज्यस्य प्रदेशेषु शान्तेः अभावः आसीत् । यतो हि मालवा-प्रदेशस्य बल्लाल-आख्यः राजा चाहड इत्यस्य पक्षधरः आसीत् । अपरत्र चहाड इत्येषः येन केन प्रकारेण अजयमेरू-नगरं प्राप्तवान् । अर्णोराजः चहाड इत्यस्मै साहाय्यं कर्तुं वचनबद्धः अभवत् । एवं कुमारपालेन सह अर्णोराजस्य युद्धस्य पृष्ठभूमिका सिद्धा अभवत् ।

 

आबू-पर्वतस्य पार्श्वे ११४५ (ई.) तमे वर्षे तयोः प्रप्रथमं युद्धम् अभवत् । तस्मिन् युद्धे उभयोः पक्षयोः सामार्थ्यं समानम् असिद्धयत् । परन्तु चालुक्यवंशीयेभ्यः सः सफलतायाः प्रसङ्गः आसीत् । यतः अर्णोराजः कुमारपालात् गुजरातराज्यस्य शासनम् अपकर्षितुम् असफलः अभवत् इति । ततः पञ्चवर्षानन्तरं ११५० (ई.) तमे वर्षे पुनः तयोः युद्धम् अभवत् । तदेव युद्धं निर्णायकयुद्धम् आसीत् ।

 

कुमारपालस्य सेना अजयमेरू-नगर्याः दुर्गस्य समीपे प्रापत् । तस्मिन् युद्धे चाहड इत्यस्य मृत्युः अभवत् । अर्णोराजः आहतः, पराजितश्च । अपरत्र कुमारपालस्य सेना मालवा-प्रदेशस्य बल्लाल इत्यस्य वधम् अकरोत् । एवं कुमारपालस्य गुजरातराज्यस्य सत्तायाः मार्गः निष्कण्टकः अभवत् ।

 

तस्मिन् युद्धे अर्णोराजस्य यः पराजयः अभवत्, तेन अर्णोराजस्य अत्यन्तं मानहानिः अभवत् । अर्णोराजेन सन्धित्वेन स्वपुत्र्याः जल्हणायाः विवाहः कुमारपालेन सह कारितः । अर्णोराजस्य, बल्लाल इत्यस्य च पराजयस्य वर्णनं वडनगरप्रशस्त्यां (१२०८ तमस्य विक्रमसंवत्सरस्य आश्विनमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ उत्कीर्णा प्रशस्तिः) प्राप्यते । चितौड-शिलालेखे (१२०७) अपि अर्णोराजस्य पराजयस्य वर्णनं प्राप्यते । अर्णोराजस्य मृत्योः अनन्तरं विग्रहराजः (चतुर्थः) कुमारपालेन सह युद्धम् अकरोत् । सः कुमारपालं पराज्य स्वपितुः अपमानस्य वैरोद्धारम् अकरोत् ।

 

मृत्युः

अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः हेमचन्द्र सूरि इत्यस्य पराशक्त्या वशे भूत्वा अर्णोराजस्य हत्याम् अकरोत् । जगद्देवस्य पितृवधस्य उल्लेखः पृथ्वीराजविजये प्राप्यते यत्, परशुरामेण यथा स्वमातुः सेवा (वधं कृतं) कृता, तथैव जगद्देवन स्वपितुः सेवा (वधं कृतं) कृता इति [१०] ।

वार्ताः


हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित