वीर बन्दा वैरागी

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

वीर बन्दा वैरागी (हिन्दी: वीर बन्दा वैरागी, आङ्ग्ल: veer banda vairagi)  इत्येतं विहाय ये युद्धस्य हिंसकक्रियया दुःखयुक्ताः सन्तः वैरागिणः अभवन् तादृशाम् अशोकचक्रवर्तिसदृशां बहूनां योधानाम् उदाहरणानि इतिहासे प्राप्यन्ते । किन्तु धर्मग्लानिना खिन्नः सन् यः वैरागी अभवत् तादृक् एकैव योधः । स च वीर बन्दा वैरागी इत्याख्यः लक्ष्मणदासः ।

जन्म

वीर बन्दा वैरागी इत्यस्य नाम लक्ष्मणदासः आसीत् । तस्य जन्म काश्मीर-प्रान्तस्य राजौरी-नगरे १६७० तमे वर्षे अभवत् । राजौरी-नगरे जातस्य अस्य लक्ष्मणदासस्य माता-पिताविषये कुत्राऽपि उल्लेखः नास्ति ।

 

शिक्षणम्

राजौरी-नगरे पाठशालायाः अभावात् लक्ष्मणदासेन प्राथमिकं शिक्षणम् न प्राप्तम् । तदानीङ्काले क्षत्रियेभ्यः शस्त्रशिक्षणमेव महत्वपूर्णमासीत् । अतः डोङ्गरा-राजपूत लक्ष्मणदासः धनुर्विद्यायाम्, अश्वारोहे, मल्लयुद्धे च स्वाभाविकरीत्यैव निपुणः अभवत् ।

 

लक्ष्मणदासस्य गृहत्यागः

एकदा क्षात्र-धर्मानुसारेण लक्ष्मणदासः मृगयितुम् अगच्छत् । तत्र एकां हरिणीं दृष्ट्वा तां हन्तुं बाणेन प्रहारम् अकरोत् । किञ्चत्कालान्तरे हरिणी मृता । हरिण्याः उदरात् शिशुः अपि प्रसूतः सन् मृतः । तत् दृष्ट्वा लक्ष्मणदासस्य हृदयपरिवर्तनम् अभवत् । सः कतिचित् दिनानि मूकमिव वर्तनम् अकरोत्, मांसाहारम् अत्यजत् च । सः आत्मनि भारमनुभूय वैराग्यभावनया गृहम् अपि अत्यजत् ।

 

साधुना सह मेलनम्, नामपरिवर्तनं च

गृहे त्यक्ते सति एकेन साधुना प्रेरितः लक्ष्मणदासः इतस्ततः भ्रमन् महाराष्ट्रं गतः । तत्र लक्ष्मणदासस्य ओघडनाथ इत्याख्येन साधुना सह मेलनम् अभवत् । लक्ष्मणदासः तत्र स्थित्वा ओघडनाथ इत्याख्यस्य सेवायाः कार्यम् अकरोत् । कालान्तरे गुरुणा लक्ष्मणदासाय माधवदास इति नाम प्रदत्तम् ।

 

उभयोः नान्देड-ग्रामे निवासः

ततः परं गुरुशिष्यौ गोदावरी तटं गतौ । नद्याः तटे नान्देड-ग्रामे ताभ्यामेकः आश्रमः स्थापितः । तत्र गुरुणा स्वस्य सर्वाः विद्याः शिष्याय माधवदासाय प्रदत्ताः । अनन्तरं स्वल्पैव समये तौ निकटवर्ति-ग्रामेषु प्रसिद्धौ अभवताम् । एकदा नान्देड-ग्रामस्य कालिकामन्दिररस्य अर्चकेन माधवदासस्य कीर्तिः श्रुता । अतः तेन ईर्ष्यावशात् स्वस्य प्रमुखशिष्याः नान्देड-ग्रामस्य आश्रमं प्रेषिताः । किन्तु तस्य प्रमुखशिष्याः माधवदासस्य ज्ञानेन प्रभाविताः सन्तः तस्य शिष्यत्वं स्वीकृतवन्तः । अनेन अर्चकः उग्रतां प्राप्य स्वयमेव आश्रममगच्छत् । परन्तु स्वशिष्यवद् सोऽपि माधवदासस्य ज्ञानेन प्रभावितः सन् तस्य शिष्यत्वं स्वीकृतवान् । अस्मात् कारणात् माधवदासः समग्रे नान्देड-विस्तारे प्रसिद्धः अभवत् । अनेकैः वैरागिभिः तस्य गुरुत्वेन स्वीकारः कृतः ।

 

गोविन्दसिंहस्य उज्जैनगमम्

दिल्ली-नगरे यवनराजस्य औरङ्गजेब इत्याख्यस्य शासनमासीत् । सः हिन्दूनामुपरि अमानुषीम् अत्याचारं करोति स्म । दक्षिणभारते औरङ्गजेब इत्यनेन सह अमोघं युद्धं कर्तुं शिवाजी आसीत् किन्तु सोऽपि मृतः । शिवाजी-वद् उत्तरभारते औरङ्गजेब इत्यनेन सह युद्धं कर्तुं गुरुगोविन्दसिंहः आसीत् । सः स्वस्य चतुर्णां पुत्राणां बलिदानम् अददात् । तथापि कार्पण्यतां न गतः, अपि तु धर्मरक्षणाय आ-देशं भ्रममाणः आसीत् । जनेभ्यः उपदेशं दत्त्वा युद्धाय तान् सज्जीकुर्वन् आसीत् । तस्य मतम् आसीत् यत् “अत्याचारस्य उत्तरं भक्त्या न, अपि तु शक्त्या एव देयम्” इति । इत्थं प्रचारं कुर्वन् गोविन्दसिंहः उज्जैन-नगरं गतः ।

 

गुरुगोविन्दसिंहस्य माधवदासेन सह मेलनम्

उज्जैन-नगरे गोविन्दसिंहः दादू-पन्थस्य गुरुं नारायणदासम् अमिलत् । तदा दादू-पन्थस्य गुरुः नारायणदासः तम् अकथयत् “भवान् यादृशं वीरपुरुषम् अन्विष्यति तादृक् वीरपुरुषः नान्देड-ग्रामे वसति । सः साधुरूपेण मठाधिपोऽस्ति । किन्तु तस्य मुखारविन्दं क्षत्रिय-तेजसा युक्तमस्ति इति मया दृष्टम्” इति । गुरुगोविन्दसिंहः तम्मिलितुं रसयुतः अभवत् । सः नान्देड-नगरं गतः । तत्र सः नारायणदासेन यदुक्तम् तदेव तेजः माधवदासे अपश्यत् । माधवदासेनापि गुरुगोविन्दसिंहस्य पराक्रमाणां विषये श्रुतमासीत् । अतः तयोः मेलनम् अलौकिकम् अभवत् ।

 

माधवदासस्य क्षात्रधर्मप्रबुद्धिः

यदा गुरुगोविन्दसिंहः धर्मरक्षणाय माधवदासं शस्त्राणि ग्रहीतुम् अकथयत्, तदा माधवदासः अवदत् यत्, “मया संसारः त्यक्तः अस्ति । संन्यासी संसारे कथम् आगच्छेत् ?” इति । किन्तु गोविन्दसिंहेन पुनरुक्तम् – “सर्वे एवमेव विचारयन्ति चेद् धर्मरक्षणं के करिष्यन्ति ? देशधर्मयोः रक्षणे शस्त्रग्रहणमेव कर्मयोगः” इति । गुरुगोविन्दसिंहः माधवदासम् प्रबोध्य तस्य क्षात्रधर्मं प्रबुद्धम् अकरोत् । माधवदासेन धर्मरक्षणाय गुरुगोविन्दसिंहः आश्वस्तः । गुरुगोविन्दसिंहः माधवदासम् अमृतम् अपाययत्, गुरुबक्षसिंह इति नाम अयच्छत् च । किन्तु जनैः माधवदासः वीर बन्दा वैरागी इत्येव नाम्ना स्वीकृतः । गुरुगोविन्दसिंहेन तस्मै खड्गः धनुः च प्रदत्तम् ।

 

उत्तरभारतं प्रति गमनम्, जनानां प्रबुद्धिकरणं च

ततः परं माधवदासः अश्वमारुह्य उत्तरभारतं प्रति गतः । तेन सह पञ्चविंशतिः योधाः आसन् । योधानाम् आधिक्यम् भवेत् इति माधवदासः मार्गस्थग्रामेषु “यैस्सह अत्याचाराः अभवन्, ते आगत्य आक्षेपं कुर्युः” इति प्रतिग्रामं घोषणाम् अकरोत् येन जनाः सहायतां कर्तुं जागृताः भवेयुः । पञ्जाब-प्रान्तं गत्वा माधवदासेन सरहिन्द-नगरस्य उपरि आक्रमणं कर्तुं विचारितम् । यद्यपि ततः प्राक् एव तेन कैथल, समाना, शाहाबाद, अम्बाला, कपूरी इत्येताः नगर्यः जिताः तथापि तस्य मनसि सन्तोषः नासीत् ।

 

वजीर खान इत्यस्य वधः सरहिन्द-विजयः

औरङ्गजेब इत्याख्यस्य आदेशेन सूबा वजीर खान इत्यनेन गुरुगोविन्दसिंहस्य पुत्रौ भित्त्यां पूरितौ आस्ताम् । अतः माधवदासस्य खड्गः सूबा वजीर खान इत्यस्य रुधिरम् इच्छति स्म । क्रूरः औरङ्गजेब इत्याख्यः मृतः । किन्तु वजीर खान इत्येतं जीवितं दृष्ट्वा माधवदासः गुरुपुत्रयोः मरणवैरत्वेन सरहिन्द-नगरं जेतुम् ऐच्छत् । वजीर खान इत्यनेनापि वार्तेयं श्रुत्वा युद्धाय मोगलसेना सज्जीकृता । तदनन्तरम् उभयोः सेनयोः भीषणं युद्धमभवत् । माधवदासस्य सेनायाः नायकौ फतेह सिंह करम सिंह च आस्ताम् । माधवदासः शिखरस्थः आसीत् किन्तु तेन वजीर खान इत्येतं हन्तुं बाज सिंह सूचितः । सूचनया सज्जेन बाज सिंह इत्यनेन वजीर खान इत्यस्य भल्लास्त्रं तस्यैवोदरे प्रेषितम् । तथापि व्रणितेन वजीर खान इत्यनेन बाणः चालितः येन बाज सिंह इत्यस्य हस्तः व्रणितः अभवत् । इदं दृश्यम् दृष्ट्वा सेनानायकः फतेह सिंह क्रोधाविष्टः सन् वजीर खान इत्येतस्य मस्तकम् अछिनत् । नायके हते सति मोगलसैनिकाः युद्धभूमितः पलायिताः अभवन् । माधवदासस्य सैनिकैः सरहिन्द-नगरोपरि विजयः प्राप्तः ।

 

माधवदासस्य मानवता सेवा च

यस्मिन् मस्जिद-स्थले गुरुपुत्रौ भित्त्यां पूरितौ तत् स्थलं नाशयितुं सैनिकाः समुत्सुकाः अभवन् । किन्तु वीर बन्दा वैरागी इत्यनेन उक्तम् – “अस्माकं युद्धं धर्मपालकेन सह आसीत् धर्मस्थलेन सह न” इति । ततः परं वीर बन्दा वैरागी इत्ययं सरहिन्द-राज्यं बाज सिंह इत्यस्मै अयच्छत् । अन्ये माधवदासेन सह आनन्दपुरम् अगच्छन् । तत्र माधवदासः धनिकेभ्यः त्रस्तान् कृषकान् अमुञ्चत । अनन्तरं गुरुनाम्नः मुद्रां निर्मीय तदुपरि “गुरुनानक तथा गोविन्दसिंहस्य प्रतापेनैव अस्माभिः अक्षयं धनं प्राप्तम्” इति अलेखयत् ।

 

माधवदासस्य पराजयः पलायनं च

सरहिन्द-नगरोपरि हिन्दुसैनिकैः विजयः प्राप्तः इति सन्देशं श्रुत्वा बहादुर शाह इत्यनेन आसिक उद् दौला इत्यस्य नेतृत्वे अपरा सेना प्रेषिता । सेनया सह इलाहाबाद, मुरादाबाद, लाहोर इत्याख्यानां नगराणां जिहादी-जनाः मिलिताः । तेषां विशालायाः सेनायाः पुरतः माधवदासस्य लघ्वी सेना पराजयं प्राप्तवती । सरहिन्द-नगरं गतं, सिक्खसैनिकैः लोहगढ-दुर्गे आश्रयः प्राप्तः । मोगलसैनिकाः ताननुधावन्तः लोहगढ-दुर्गं प्राप्ताः । परिस्थितिं दृष्ट्वा माधवदासः पलायनम् अकरोत् ।

 

विवाहः

एकदा मोगलसैनिकाः कुटिलनीत्या माधवदासं कारागारं प्रैषयन् । माधवदासः कारागारं विभेद्य चम्बा-नगरं गतः । तत्र माधवदासस्य वीरगाथां श्रुत्वा प्रसन्नः सन् राजा तेन सह स्वकन्यायाः विवाहम् अकरोत् । वर्षान्ते माधवसदासस्य पत्न्युदरात् अक्षयसिंह-नामाख्यः पुत्रोऽभवत् ।

 

बहादुर शाह इत्यस्य मृत्युःपदप्राप्त्यै मुगलानां सङ्घर्षश्च

मोगलसेना माधवदासम् अन्वेषयन् आसीत् । अतः सः चम्बा-नगरात् जम्मू-नगरम् अगच्छत् । तदैव तत्र माधवदासेन बहादुर शाह इत्यस्य मरणसन्देशः प्राप्तः । बहादुर शाह इत्यस्य अवसानकारणात् दिल्ली-नगरस्य पदप्राप्त्यै मुगल-वंशीयेषु आन्तरिकसङ्घर्षः अभवत् । बहादुर शाह इत्यस्य पुत्रः जहादर शाह नामाख्यः पदम् आलङ्करोत् । किन्तु जहादर शाह इत्यस्य पैतृव्यः फारुख सियार इत्यनेन कुटिलनीत्या बलात् पदम् अलङ्कृतम् । इत्थं कलहपूर्णं वातावरणं दृष्ट्वा माधवदासेन लोहगढ, साठौरा इत्येतयोः स्थानयोः विजयः प्राप्तः । बादशाह फारुख सियार इत्यनेन लोहगढ प्रति सेना प्रेषिता । किन्तु माधवदासः सेनया सह भयङ्करं युद्धमकरोत् । माधवदासः सेनायाः शस्त्राणि सङ्गृह्य ताम् अपराजयत् ।

 

माधवदासस्य मृत्युः

स्वयं बादशाह फारुख सियार इत्यनेन माधवदासः वशीकृतः । तेन सह सप्तशतं सैनिकाः वशीकृताः । तस्मात् दिनात् सप्तदिनानि यावत् बादशाह फारुख सियार इत्यनेन प्रतिदिनं शतसैनिकाः मारिताः । तथा अष्टमे दिने माधवदासस्य क्रमः आसीत् । मुगल बादशाह फारुख सियार नामाख्यः तं मृत्योः प्राग् प्रतिक्षणं मारयितुम् ऐच्छत् । अतः सः तत्रोपस्थितः आसीत् । सः माधवदासम् अपृच्छत् त्वं कीदृशं मृत्युं वाञ्छसि ? वीर बन्दा वैरागी इत्यनेन उच्यते यत् – “यथा त्वमिच्छसि तथैव” । तथापि मुगल बादशाह फारुख सियार इत्यस्य क्रूरहृदये वीर बन्दा वैरागी इत्यस्य कथनं व्यर्थमासीत् । माधवदासः प्रतिक्षणं म्रियेदिति फारुख सियार ऐच्छत् । अतः माधवदासं तथा हन्तुं सः चाण्डालम् असूचयत् । चाण्डालेन सर्वप्रथमं माधवदासस्य पुत्रः अक्षयः मारितः । बलात् अक्षयस्य हृदयं माधवदासस्य मुखे स्थापयितुं चाण्डालेन प्रयत्नः कृतः । ततः परम् अत्युष्णां सुचुटीम् उदरे प्राविश्य, मांसं बहिर्निष्कास्य हस्तपादौ अकर्तयत् । अन्ते अक्षिणी निष्कास्य माधवदासस्य मस्तकं छित्त्वा तस्य हत्यामकरोत् । इत्थं १७१६ तमस्य वर्षस्य जून-मासस्य नवमे (९) दिनाङ्के षड्चत्वारिंशत् वर्षं यावत् जीवित्वा माधवसदासः स्वर्गारूढः अभवत् । तस्य कीर्तिविषये इतोऽपि जनमनांसि गायन्ति यद् –

 

“બંદાસિંઘ રખિ સિકખાં નાલ શીશ કટાયા, પર ધર્મન દાગ જરા નહિ લાયા.”

प्रवेश पटलं

वार्ताः


पूर्व जन्म के दोष हो सकते हैं आपके परेशानी का कारण...

पूर्वजन्म के दोष कही आपके परेशानी के कारण तो नही मनुष्य क [ ... ]

अधिकम् पठतु
देश के १६ प्रशिद्ध और सुंदर हनुमान मंदिर...

●●ॐ●● ■■ भारत के प्रसिद्ध 16 हनुमान मंदिर :::----- इस लेख में आप  [ ... ]

अधिकम् पठतु
मेजर ध्यानचन्द

ध्यानचन्द (हिन्दी: ध्यानचन्द, आङ्ग्ल: dyanchand ) इत्यस्य मुख्यं  [ ... ]

अधिकम् पठतु
श्री भवानी अष्टकम

 ॥**अन्नकूट महोत्सव की ह्रदय से हार्दिक शुभकामनाएं*

*श्री भ [ ... ]

अधिकम् पठतु
भगवान धनवंतरि कौन

कार्तिक कृष्ण पक्ष की त्रयोदशी तिथि के दिन भगवान धन्वन्त [ ... ]

अधिकम् पठतु
सप्तशती विवेचन

|| सप्तशती विवेचन ||
मेरुतंत्र में व्यास द्वारा कथित तीनो च [ ... ]

अधिकम् पठतु
धनतेरस २०१७ विशेष

धनतेरस 2017 :-
यह पर्व प्रति वर्ष कार्तिक मास के कृष्णपक्ष की  [ ... ]

अधिकम् पठतु
दीपावली के अचूक मंत्र...

🌻🌻दीपावली के अचूक मन्त्र 🌻🌻
दीपावली कि रात्रि जागरण कि  [ ... ]

अधिकम् पठतु
धनतेरस की हार्दिक शुभकामनाएं- जानें धनतेरस पूजन वि...

©*धनतेरस पूजन विधि*
( घर में धन धान्य वृद्धि और सुख शांति के  [ ... ]

अधिकम् पठतु
उपमालङ्कारः

उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस [ ... ]

अधिकम् पठतु
रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य म [ ... ]

अधिकम् पठतु
शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
अन्य लेख
© 2017 Devwani Group . All Rights Reserved.