विनायक दामोदर सावरकर

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

विनायकदामोदरसावरकरः ईशवीये १९१० वर्षे जुलै १० दिनाङ्कः। सूर्योदयसमयः । फ़्रान्स्-देशे मार्सेल्स्-नौकाश्रये मोरिया नाम्नी नौका नौकीलेन स्थापिता । तस्यां कोऽपि यान्त्रिकलोपः सञ्जातः । नौकायाः कर्मकराः तस्य लोपस्य निवारणे मग्नाः आसन् । यात्रिकाः सा कदा सम्यग् भविष्यति इति प्रतीक्षायाम् आसन् । सागरः प्रशान्तः आसीत् । यात्रिकाः अपि निश्चिन्ताः आसन् । किन्तु एतस्मिन् व्यवहारे असावधानः कश्चन युवा किमपि गणयन् आसीत् । निश्चिन्ततया अवस्थानं तस्य न अभ्यस्तम् नासीत्। कारणम्...? सः बन्दी आसीत् । तत्रापि आङ्ग्लसर्वकारस्य । तस्मिन् राजद्रोहः आरोपितः आसीत्। तस्य चलनवलनं द्वौ आरक्षकौ निर्निमेषं परिशीलयन्तौ आस्ताम् च ।

समुद्रप्लवनम्

आरक्षकद्वयम् उद्दिश्य"मया बहिः गन्तव्यम्" इति पृष्टवान् सः बन्दी । एकः आरक्षकः तं शौचालयं नीतवान् बन्दी अन्तः गत्वा द्वारं पिहितवान् । बहिः आरक्षकद्वयं परस्परम् अभिमुखं चलन्तौ रक्षन्तौ आस्ताम् । शौचालयद्वारस्य उपरि काचनिर्मितः गवाक्षः आसीत् । तस्य गवाक्षस्य द्वारा अन्तःस्थस्य बन्दिनः चलनं द्रष्टुं शक्यते स्म। अन्तर्गतः बन्दी स्वस्य दीर्घप्रावारकम् अपावृत्य तस्य गवाक्षस्य काचं रोधयन् अवलम्बितवान् । एवम् आरक्षकद्वयस्य दृष्टिपथात् सः अपगत: अभवत् । अन्यक्षणे सः शौचालयस्य रन्ध्रद्वारा समुद्रं प्राप्तवान् । ऊर्मिभिः सह युद्ध्यन् कथञ्चित् तीरं प्रति तरन् गतवान् । नौकाश्रयस्य द्वारतः उपरि अभिप्रसर्प्य पलायनं कृतवान् । अधिककाले गतेऽपि अन्तर्गतः युवा बहिः नागतवानिति शौचालयस्य बहिः स्थितस्य आरक्षकद्वयस्य सन्देहः जातः । अन्तः किमपि अभवत् इति सन्देहेन नौकायाः उपरि गत्वा दृष्टवन्तौ । तत्र किमस्ति ..? तदैव बन्दी समुद्रे कूर्दित्वा प्लवमानः पलायते । तत्क्षणे आरक्षकद्वयम् उच्चैः आक्रोशत् " बन्दी पलायते, गृह्ण्न्तु" इति ।

गणेशविनायकौ

’भगूर्’ महाराष्ट्रस्थे नासिकजनपदे एकः कुग्रामः । तत्र दामोदरपन्तसावरकरस्य गृहे ईशवीये १८८३तमे वर्षे मे मासस्य २८तमे दिनाङ्के एकः बालः जातः । तस्य विनायक: इति नाम कृतवन्तः । दामोदरपन्तस्य पूर्वमेव अन्यः पुत्रः आसीत् । तस्य नाम गणेश: । गणेशः, विनायकः इति नामद्वयमपि एकस्यैव देवस्य । समानार्थकनामवन्तौ सोदरौ ज्येष्ठौ भूत्वा देशहितकार्ये अपि समानं भागं स्वीकृत्य नामसमानतायाः सार्थकतां कल्पितवन्तः । गृहजनाः गणेशं ’बाबू’ इति विनायकं ’तात्या’ इति च सम्बोधयन्ति स्म ।

विद्याभ्यासः

विनायकस्य नवमे वर्षे तस्य माता राधाबायी दिवङ्गता । विद्याभ्यासार्थं गणेशविनायकौ नासिकं गतवन्तौ । तयोः पिता दामोदरपन्तः कनिष्ठपुत्र्या मेनया, पुत्रेण नारायणेन च सह भगूरग्रामे एव जीवनं यापयति स्म । आङ्ग्लजनानां शासनसमयः । विक्टोरियामहाराज्ञ्याः पट्टाभिषेकस्य पञ्चाशद्वर्षसमाप्तिं पुरस्कृत्य १८९७तमे वर्षे भारते स्वर्णोत्सवः आचरणीयः इति आङ्ग्लसर्वकारेण निश्चितम् । तस्मिन् समये महाराष्ट्रे सर्वत्र भयङ्करः प्लेग् व्याधिः सङ्क्रान्तः आसीत् । सर्वत्र जनाः प्लेग् व्याधिग्रस्ता मक्षिका इव मरणं प्राप्नुवन्ति स्म । मृत्योः भीकरं नृत्यं प्रचलति स्म । तादृश्यां दुर्भरबाधाकरपरिस्थितौ आङ्ग्लेयैः महाराज्ञ्याः पट्टाभिषेकोत्सवः सवैभवं करणीयः इति निश्चितम् इति तत्रत्यानां प्रजानां मनसि व्रणे मरीचचूर्णक्षेपणमिव अभवत् । देशभक्ताः जनाः एतं विषयं न असहन्त। आङ्ग्लेयानाम् एतस्य दुर्व्यवहारस्य स्वविरोधं निरूपयन्तौ पूनानगरीयौ चापेकरसोदरौ आङ्ग्लाधिकारिद्वयं बध्द्वा विस्फोटनगोलकेन मारितवन्तौ । आङ्ग्लसर्वकारः चापेकरसोदरद्वयं बद्ध्वा कण्ठपाशदण्डेन अहनत् । चापेकरसोदरद्वयस्य एतदात्मार्पणं सावरकरसोदरद्वयम् अत्यधिकम् आकृष्टवत् ।

प्रतिज्ञास्वीकारः

बालकः विनायकः चापेकरसोदरद्वयेन दर्शितं साहसमधिकृत्य स्फूर्तिदायकम् एकं गेयं रचितवान् । तत्र अन्तिमपङ्कतयः एवमासन् ।

 

भवतोः आरब्धं कार्यम्

मध्ये अवरुध्दमिति न भवतु शङ्का भवतोः ।

तत् कार्यम् अग्रे नेतुम्

वयम् स्मः, भवन्तौ निश्चिन्तौ भवताम् ॥

विनायकः केवलं कवित्वं विरचय्य, तूष्णीं नैव स्थितवान् । स्वीयकुलदेवतायाः अष्टभुजादेव्याः दुर्गामातुः पुरतः स्थित्वा ’देशस्वातन्त्र्यार्थं सायुधसङ्ग्रामध्वजम् आरोपयामि । स्वप्राणान् पणीकृत्य सङ्ग्रामं करोमि’ इति प्रतिज्ञाम् अपि कृतवान्

मित्रमेलायाः आरम्भः

गणेशविनायकौ स्वमित्रैः सह नासिके स्वपाठशालायां ’मित्रमेला’ नाम्नीम् काञ्चित् संस्थाम् आरब्धवन्तौ । व्यायामशालायाः निर्वहणम्, गणेशपूजा-शिवाजीजयन्तीत्यादिसार्वजनिकोत्सवानाम् आयोजनञ्च मित्रमेलायाः कार्यम् । मित्राणि सर्वाणि सम्भूय गातुं योग्यानि गीतानि विनायकः रचयति स्म । छत्रपतिः शिवाजि:, तानाजि:, वासुदेवबलवन्तफडके इत्यादीनां महावीराणां जीवनचरितानि च अत्यन्तस्फूर्तिकरं श्रावयति स्म । एवं युवकेषु, बालेषु च देशभक्तिनिर्माणाय स्फूर्तिकेन्द्रम् अभवत् मित्रमेला । ईशवीये १८९९तमे वर्षे विनायकस्य पिता दामोदरपन्तः प्लेगव्याधिकारणतः दिवङ्गतः । तेन कुटुम्बपोषणभारः गणेशे समापतितः । गणेशः कनिष्ठसोदरीं मेनां सोदरं नारायणं च भगूरतः नासिकनगरम् आनीतवान् । किञ्चित्कालानन्तरं गणेशस्य यशोदया सह विवाहोऽभवत् । यशोदागणेशौ विनायकं, नारायणं मेनाञ्च अत्यन्तानुरागेण पालयन्तौ आस्ताम् । विनायकः भ्रार्तृजायां स्वमातरमेव पश्यति स्म । स्वानुजस्य विनायकस्य विवेके गणेशस्य अपारः विश्वासः आसीत् । कुटुम्बस्य सर्वमपि भारं स्वयं वहन् विनायकं विद्याविषये प्रोत्साहितवान् सः ।

अभिनवभारतम्

पाठशालायां विद्याभ्याससमाप्त्यनन्तरम् उन्नतविद्याप्राप्त्यर्थं विनायकः पूनानगरं गतवान् । तदैव बाबासाहेबचिप्लूणकरस्य पुत्र्या यमुनया सह तस्य विवाहः अभवत् । विनायकः उन्नतविद्याभ्यासार्थं फर्र्ग्युसन्-महाविद्यालये प्रविष्टः । तेन सह तस्य मित्रमेलाप्रणाली अपि तत्र प्रविष्टा । सः स्वप्रणालीं सहविद्यार्थिनां कृते निरूप्य तत्राऽपि एकां संस्थाम् आरब्धवान् । विनायकस्य प्रेरणया वसतिगृहभोजनशालायां छ्त्रपतेः शिवराजस्य वर्णचित्राविष्कारणं सम्पन्नम् । प्रतिदिनं शिवराजस्य स्तोत्रपठनं, सप्ताहे एकवारं सिंहगढगमनम्, तत्र शिवराजस्य अन्येषां महाराष्ट्रियाणां, विजयनगरीयाणाञ्च हिन्दुवीराणाम् इतिहासाध्ययनम् इत्यादिकमपि आरब्धम् । एतानि कार्याणि फलप्रदानि प्रचलन्तीति अमितोत्साहेन विनायकः अग्रजाय गणेशाय पत्रं लिखितवान् । ’बाबा! आगामिग्रीष्मविरामेषु नासिके अस्माकं संस्थायाः सभ्याः सर्वे मिलित्वा एकं सम्मेलनम् आयोजयितुमिच्छामः । देशस्वातन्त्र्यार्थं क्रियमाणे अस्मिन् अस्माकं सङ्ग्रामे पुरोगमनम् आवश्यकम् । अस्मिन् विषये भवतः अभिप्रायः अपि आवश्यकः ।" इति लिखितवान् ।

 

अनुजस्य लेखं पठित्वा गणेशः अधिकं प्रसन्नः । पूर्वचिन्तनानुसारं ग्रीष्मविरामेषु नासिकनगरे सर्वे सुहृद: मिलितवन्तः । सर्वे मिलित्वा देशहितार्थं करणीयं कार्यमुद्दिश्य बहुविधं चिन्तनं कृतवन्तः । अनेकविधान् तर्कान्, प्रणालीश्च निर्मितवन्तः । स्वरक्तेन परस्परं तिलकं धरितवन्त: । ’देशस्वातन्त्र्यार्त्थं सायुधसङ्ग्रामं कुर्मः’ इति कङ्कणानि बध्दवन्तः । अस्य सम्मेलनबृन्दस्य ते ’अभिनवभारतम्’ इति नामकरणं कृतवन्तः ।

नूतनप्रणाल्याः आरचनम्

नासिके आरब्धम् अभिनवभारतम् अत्यन्तोत्साहेन कार्यक्रमान् योजयत् अग्रे गच्छति स्म । अस्मिन् समये एव आङ्ग्लसर्वकारेण वङ्गप्रान्तः द्विधा विभक्तः । एतद्विरुध्य देशजनाः उद्यमम् आरब्धवन्तः । एतद्विभजनं प्रतिघटितवन्तः । एतद् विभजनं निरोध्दुम् अभिनवभारतम् अपि एकां नूतनां प्रणालीं निर्मितवत् । निरसनसभाः, समावेशाः , शोभायात्राः इत्यादिसार्वजनिककार्यक्रमाः प्रचलन्ति स्म । अभिनवभारतस्य प्रणाली का इत्युक्ते सार्वजनिकस्थलेषु बृहत्सु चतुष्पथेषु जनान् मेलयित्वा विदेशीयवस्त्राणि राशीकृत्य तेषां दहनं करणीयम् इति । अनेकस्थानेषु एतत् सफलमपि अभवत् । ज्वलन्ति विदेशीयवस्त्राणि दृष्ट्वा लोकमान्यतिलकः " आङ्ग्लेयान् विरुध्य हिन्दुदेशे उद्भूताः एते अग्निकणाः स्वल्पदिनेष्वेव ज्वालाः भूत्वा आङ्ग्लदेशं व्याप्स्यन्ति" इति व्याख्यातवान् । अभिनवभारतेन निरूढेन अनेन विदेशीयवस्त्राणां होलिकोत्सवेन विनायकं महाविद्यालयात्, वसतिगृह्तः अपि बहिष्कृतवन्तः पालकाः । स्वमित्रैः सह निवसन् सः कथमपि विद्याभ्यासं सम्पूरितवान् । परीक्षासु उत्तमान् अङ्कान् प्राप्य उत्तमश्रेण्याम् उत्तीर्णः पदवीं च प्राप्तवान् ।

उन्नतविद्याभ्यासः

अनन्तरं विनायकः न्यायसंहिताम् अध्येतुं मुम्बयीं गतवान् । तत्र सः विद्याभ्यासेन सहैव वार्तापत्रिकासु देशभक्तियुतान् लेखान् अपि लिखन् आसीत् । लण्डन् नगरे ’इण्डियाहाउस्’ इति काचन संस्था आसीत् । सा भारतस्वातन्त्र्यसङ्ग्रामाय प्रोत्साहं यच्छन्ती आसीत् । सा संस्था स्वकार्यकलापेषु योग्यान्, बुध्दिमतः विद्यावतः युवकान् आक्रष्टुं छात्रवृत्तिमपि ददाति स्म । एतेषां छात्रवृत्तीनां सम्बन्धिनी वार्ता पत्रिकासु प्रकटीक्रियते स्म । कदाचित् एतादृशं प्रकटनं दृष्ट्वा विनायकसावरकरः तस्मै अभ्यर्थनं कृतवान् । छात्रवृत्तिं प्राप्तवान् च । तदा विनायकः पत्नीं यमुनां तस्याः जन्मगृहं प्रेषयित्वा स्वयम् ईशवीये १९०६ तमे वर्षे आङ्ग्लदेशं प्रयातः ।

सावरकरस्य आदर्शनायकः

माजिनी(१८०४-१८७२) इटलीदेशीयः विख्यातः देशभक्तः । अयं विनायकस्य आदर्शनायकः । ईशवीये १९०६तमे विनायकः आङ्ग्लदेशं प्राप्तवान् । तत्र माजिनीसम्बन्धिसाहित्यं सर्वमपि पठितवान् । तस्य जीवनस्य सम्यगध्ययनं कृतवान् । स्वातत्र्यसाधनार्थं भारतीयानां प्रेरणायै, समरोत्साहनिर्माणार्थं च तस्य जीवनचरितम् अत्यन्तशक्तिमत्या, स्फूर्तिप्रदया च भाषया लिखितवान् । तस्य मुद्रणार्थं लिखितप्रतिकृतिं भारतदेशं प्रेषितवान् । तत् पठित्वा लोकमान्यतिलकः "माजिनीचरितम् अत्यन्तं स्फूर्तिप्रदम्, अस्माकं तात्याभाषा, तल्लेखनशैली च इतोऽपि शक्तिमती । एतत् पुस्तकं युवजनम् स्वातन्त्र्यसाधकं वीरं करिष्यति । एतत् पुस्तकं मुद्रितं भविष्यति चेत् अवश्यम् आङ्ग्लसर्वकारः निषेत्स्यति, लेखकम् अवश्यं दण्डयिष्यति च" इति भवितव्यतामुक्तवान् । तत् अक्षरशः सत्यमभवत् । माजिनीपुस्तकं सर्वकारः न्यषेधत् । विनायकस्य कार्येषु गूढचर्याऽपि आरब्धा ।

प्रथमस्वातन्त्र्यसङ्ग्रामः

भारतीयेषु स्वातन्त्र्यभावनाजागरणाय सावरकरः ईशवीये १८५७तमे वर्षे सम्भूतस्य स्वतन्त्र्यसाधनसङ्ग्रामस्य चरितं समग्रं सप्रमाणं लिखितवान् । तस्य पुस्तकस्य नामाऽपि "१८५७ प्रथमस्वात्न्त्र्यसङ्ग्रामः" इति कृतवान् । आङ्ग्लपालकाः एतस्य सङ्ग्रामस्य गौरवं न्यूनीकर्तुमेव एतं सैनिकद्रोहमिति प्रचारितवन्तः । किन्तु सावरकरस्य पुस्तकेन तस्य सङ्ग्रामस्य सत्यस्वरूपं सर्वैः ज्ञातम् । १८५७ प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य समाप्त्यनन्तरं ५० वत्सराणि समाप्तप्रायाणि । तस्मिन् सन्दर्भे आङ्ग्लराजधान्यां लण्डन् नगर्याम् एकं कार्यक्रमम् आयोजितवन्तः । एतस्य स्वातन्त्र्यसाधनङ्ग्रामस्य रजतोत्सवाय बारिष्टराणां, पण्डित श्यामजी कृष्णवर्मा, मेडम् कामा इत्यादिभ्यः अपि उत्तमः सहकारः लब्धः । प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य गौरवचिह्नम् एकं निर्मितवन्तः । तत् चिह्नं भारतीयछात्राः, भारतदेशस्वातन्त्र्यानुरागिणः सर्वे वक्षःस्थले धृत्वा लण्डन् नगरवीथीषु सोत्साहम् अटितवन्तः । एतत् गौरवचिह्नं सगर्वं धृत्वा अटितेषु छात्रेषु मदनलाल् धिङ्ग्रा अन्यतमः । तद् धृत्वा यदा सः विद्यालयप्राङ्ग्णे अटन्नासीत्, तदा केचन आङ्ग्लेयछात्राः तम् परिहसितुं प्रयत्तवन्तः । धिङ्ग्रा कोपेन स्वछुरिकां हस्ते स्वीकृतवान्, तदा ते पलायिताः । अस्मिन् रजतोत्सवकार्ये लण्डन्-नगरे अभिनवभारतस्य कार्यक्रामाणां वेगः अभिवृध्दः । एतस्याः संस्थायाः सभ्याः रहसि विस्फोटनगोलिकाः निर्मान्ति स्म । लक्ष्यवेधने गोलकास्त्रप्रयोगस्य अभ्यासमपि आरब्धवन्तः ।

 

सावरकरेण लिखितं " १८५७ प्रथमस्वातन्त्र्यसङ्ग्रामः " इति ह्स्तलिखितपुस्तकं निगूढं भारतदेशम् आगतम् । तस्य पुस्तकस्य गूढतया मुद्रापण्स्य प्रचारनस्य च भार: गणेशेन स्वीकृत: । एषः विषयः सर्वकारेण ज्ञातः । एतत् पुस्तकं राजद्रोहवर्धकं भावयन् आङ्ग्लसर्वकारः मुद्रणार्थं स्वीकृतं मुद्रणालयं पिहितवान् लिखितपुस्तकमपि सर्वकारः स्वायत्तीकुर्यादिति विचिन्त्य गणेशः गूढतया फ्रान्सदेशं प्रेषितवान् । भारतीयभाषायां स्थितस्य तस्य पुस्तकस्य फ्रान्सदेशे मुद्रणम् असाध्यम् । अतः तत् आङ्ग्लभाषया अनूद्य मुद्रापणीयम् अभवत् । अनन्तरं तस्य पुस्तकस्य प्रतिकृतयः रहसि भारते प्रविष्टाः । अल्पदिनेष्वेव एतस्य विषयस्य वार्ता सर्वकारेण ज्ञाता । सार्वकार: झटिति पुस्तकस्य निषेधम् अकरोत् । गणेशसावरकरे राजद्रोहदोषम् आरोप्य अभियोगम् अरचयत् च । न्यायालयः तं दोषिणं निर्णीय आजीवनकारावासं प्राकटयत् ।

कवित्वम्

लण्डन्-नगरे स्थितः सावरकरः भ्रातृजायया लिखितेन पत्रेण ज्ञातवान् यत् "बाबारावम् आरक्षकाः बध्दवन्तः, तस्य आजीवनकारावासद्ण्ड:अपि दत्त: " इति । तस्य मनः परितप्तम् । " अग्रजः कठिनकारावासदण्डम् अनुभवन् अस्ति, अहं लण्डन् नगरे कथं सुखेन निवसामि ? भ्रातृजायाम् एतस्मिन् कष्टसमये कथं वा अनुनयेयम् ?"इति व्यथामनुभूतवान् । तीव्रमालोच्य स्वदुःखमेव कवित्वरूपेण परिवर्त्य प्रजावतीं प्रति लेखं लिखितवान् । "अनेकानि पुष्पाणि विकसन्त्येव कदाचित् कुत्रचित् गलन्ति, शुष्काणि च भवन्ति । तादृशानां गणना वा, प्रामुख्यं वा क्व ? किन्तु कश्विद् गजः कदाचिद् एकं कमलं त्रोटयित्वा स्वशिरसि वहन् श्रीहरेः पादसन्निधौ समर्पयति । तथा समर्पितस्य कमलस्य जीवनमेव धन्यं, पावनं, सार्थकञ्च । अस्माकं कुटुम्बस्थाः सर्वे एतादृशसार्थक-पावन-धन्यजीवनप्राप्तये प्रयतमानाः स्मः । एषः अत्यन्तगर्वप्रदः विषयः ।" - प्रजावत्यै तेन लिखितस्य पत्रस्य सारांशः एषः ।

प्रतीकाराग्निः

बाबाराव(गणेश) सावरकारस्य आजन्मकारावासदण्डं श्रुत्वा लण्डन् नगरे स्थिताः अभिनवभारतसभ्याः पुच्छे मृदितनागाः इव फणां कृतवन्तः । मदनलालधिङ्ग्रा ’ एतस्य योग्यं प्रतीकारं करोमि’ इति शपथं कृतवान् । लण्डन् नगरे स्थितानां भारतीयविप्लवकाराणां कार्यकलापेषु गूढदृष्टिं दत्तवतः आङ्ग्लेयाधिकारिणः नाम कर्जनवैली । तं मदनलालधिड्ग्रा भुशुण्डिना मारितवान् । आरक्षकाः मदनलालं बध्दवन्तः । अनन्तरं तस्मै कण्ठपाशेन मरणदण्डं विहितवन्तः । इतो भारतदेशेऽपि स्वातन्त्र्यवीराणां स्थितिः तादृशी एव आसीत् । सावरकरः, तस्य अभिनवभारतसभ्याः च भारतदेशस्थानां क्रान्तिकाराणां कृते निगूढतया आयुधानि प्रेषयन्ति स्म । बाबारावसावरकराय अन्याय्यं दण्डं विहितवतः नासिकजनपदस्य आङ्ग्लाधिकारिणः नाम जाक्सन् । तम् एकस्यां वेश्याशालायाम् अनन्तलक्ष्मणकन्न्हेरेनामा क्रान्तिकारः भुशुण्डिना मारितवान् । अनन्तः आरक्षकैः गृहीतः । तेन सह अन्ये अपि केचन तैः गृहीताः । एतान् क्रान्तिकारिणः आङ्ग्लसर्वकारः अवर्णनीयया रीत्या अपीडयत्। कर्जन्वैली, जाक्सन् इत्यादीनाम् अनेकेषाम् आङ्ग्लाधिकारिणां हननस्य पृष्ठतः विनायकसावरकरस्य प्रेरणा अस्तीति आङ्ग्लसर्वकारः दॄढं विश्वसिति स्म । मदनलालधिङ्ग्रा स्वीये मरणसन्देशे गर्जितवान्, यत् ’भारतीययुवकानां कठिनकारावासदण्डः विधीयते चेत्, ते मरणशूलेषु आरोप्यन्ते चेदपि, तत्प्रतिक्रियारूपेण आङ्ग्लेयानां रक्तं प्रवाहयितुं वयं निश्चितवन्तः ’इति। एतं सन्देशं सवरकरः एव रचितवान् । एष एव सावरकरस्य सिध्दान्तः इति ज्ञातवन्तः आङ्ग्लेयाः । आङ्ग्लसर्वकारस्यापि तथैव समाभात् । अतः सावरकरं विरुध्द्य न्यायालये अभियोग: रचित: सर्वकारेण ।

 

साहसपूर्णः प्रयत्नः

साहसपूर्णः प्रयत्नः

सावरकरस्य अनुयायिनः अनेके निर्बन्धे आसन् । धिङ्ग्रासदृशाः केचन अमराः सञ्जाताः । अग्रजः अण्डमाने कारावासमनुभवति स्म । एतादृशस्थितौ सावरकराय लण्डन् नगरे निवासः न अरोचत । भारतदेशः प्राप्तव्यः इति तस्य मन: अतप्यत । तदर्थं प्रयत्नाः अपि आरब्धाः । एतादृशविपत्करस्थितिष्वपि स्वराजतन्त्रकार्याणि वर्धयन्नेव सः बारिष्टर् परिक्षायाम् उत्तीर्णः ।

 

सावरकरः भारतदेशप्रयाणाय व्यवस्थां कृत्वा लण्डन्- नगरस्थं विक्टोरियारेलस्थानकं प्राप्तवान् । ततः भारतदेशः प्रयातव्यः इति तस्य चिन्तनम् । सर्वकारः रेलस्थानके एव तं निरबध्नात् । तस्मिन् राजद्रोहापराधः, आङ्ग्लेयाधिकारिणां वधापराधश्च आरोपितः । तस्मिन् आरोपितानाम् अपराधानां न्यायालये यथाकथञ्चित् परिशीलनं समाप्य दण्डनार्थं तं बन्दिनं कृत्वा भारतं प्रेषणीयः इति अधिकारिणां चिन्तनम् आसीत् । किन्तु, मयि आरोपिताः अपराधाः सर्वेऽपि लण्डन् नगरे एव विचारणीयाः, यतः अहं तदा लण्डन्-नगरे एव आसम् इति सावरकरः अक्तवान् । आङ्ग्लसर्वकारेण तत् न अङीकृतम् । सावरकरं बन्दिनं कृत्वा मोरिया इति नौकया भारतं प्रैषयत् च । मोरियानौकायां बन्दीरूपेण भारतं प्रति आगमनसमये एव फ्रान्स् देशस्थे मार्सेल्स् इति नौकाश्रये नौका कीलिता स्थिता । तदा शौचालयस्य रन्ध्रतः बहिः समुद्रे कूर्दित्वा सावरकरः तरन् पलायितुं प्रयत्नं कृतवान् । शौचालयस्य रन्ध्रतः बहिरागमनसमये तस्य शरीरे अनेकस्थानेषु विदारणेन रक्तं सृतम् । शिरसि अपघाताः अभवन् । रक्तसिक्तशरीरेण समुद्रस्य लवणजले तरन् आसीत् तदा तस्य शरीरे सर्वत्र बाधा । तथापि तां सहमानः एव सः तरन् फ्रान्स् भूभागे पदं निक्षिप्तवान् । पट्टणे प्रवेशार्थं प्रयतमानः नौकाश्रयस्य कुड्यम् आरोहत् । तदा रक्षकनौकायां सिध्दाः आङ्ग्लेयरक्षकाः सावरकरं पुनः बध्दवन्तः । फ्रान्स् भूभागे पदं निक्षिपन्तं मां बन्धुम् अधिकारः फ्रान्स् आरक्षकाणाम् अस्ति, न तु आङ्ग्लेयारक्षाणाम् इति सावरकरः गर्जितवान् । किन्तु तस्य वचनानि श्रोतुं न सिध्दाः आसन् आङ्ग्लाधिकारिणः । तं बध्द्वा पूर्वतः अपि अप्रमत्ताः भारतदेशम् आनीतवन्तः । आङ्ग्लरक्षकैः यद्यपि सः पुनर्बध्दः, तथापि सावरकरस्य अद्भुतं साहसमेतत् विश्वेतिहासे अपूर्वयत्नत्वेन परिगणितम् ।

आजन्मकारावासदण्डद्वयम्

भारतदेशे सावरकरविषये न्यायविचारणं कृतम् । तस्मिन् अपराधद्वय्म् आरोपितम् । प्रथमः- क्रान्तिद्वारा सः भारतदेशे आङ्ग्लराज्यं समूलमुन्मूलयितुं प्रयतते इति, द्वितीयः- आङ्ग्लाधिकारिणः संहर्तुं जनान् प्रेरयतीति च । एतस्य अपराधद्वयस्य दण्डरुपेण पृथक् पृथक् आजन्मकारावासद्वयम् विहितम् । आङ्ग्लाधिकारिभिः विहितं दण्डद्वयं श्रुत्वा सावरकरः " अहो ! आङ्ग्लेयानामपि हिन्दूनां पुनर्जन्मसिध्दान्ते विश्वासः अस्तीत्यत्र एतद् दण्डद्वयविधानमेव निदर्शनम् ।" इति छलोक्त्या व्याख्यातवान् । सावरकरस्य सर्वस्वं सर्वकारेण स्वायत्तीकृतम् । कारावासदण्डद्वयम् इत्यस्य अर्थः अण्डमाने पञ्चाशद्वर्षपर्यन्तं कठिनदण्डनानि अनुभोक्तव्यानीति । अण्डमान्-कारागारं दुर्भरयातनानां, पीडानां विषये ख्यातः । अण्डमान् पूर्वसमुद्रे स्थितः द्वीपविशेषः । तत्रत्यः कारागारम् अत्यन्तकठिनदण्डनानां केन्द्रम् इति सर्वविदितम् । तत्र प्रेषितैः बन्दिभिः अनेकविधानि दण्डनानि एककाले अनुभोक्तव्यानि भवन्ति । तत्र तैलयन्त्रे वृषभस्थाने सावरकरं बध्द्वा आटयन्तः तिलं निष्पेषयन्ति स्म । प्रातः आरभ्य सायं पर्यन्तं यन्त्रम् आकृष्य सावरकरस्य शरीरं श्रान्तं भवति स्म । निर्णीतपरिमाणस्य तैलस्य निष्कासनसमये करतलं विदीर्णं भवतु, रक्तं स्रवतु नाम, तैलनिष्कासनानन्तरं तन्तुभिः निर्णीतपरिमाणा रज्जुः अपि तेन अवश्यं वयनीया भवति स्म । अन्यथा कशाघाताः अनुभोक्तव्याः भवन्ति स्म ।

भ्रात्रोः कारागृहवासः

एकस्मिन् दिने सावरकरः अग्रजं गणेशसावरकरं दूरतः अपश्यत् । ततः पूर्वमेव गणेशसावर्करः तत्र दण्डनम् अनुभवति स्म । सः स्वस्य अनुजः विनायकः अपि तत्रैव अस्तीति न जानाति स्म । सोदरौ परस्परं अपश्यताम् । किन्तु परस्परं भाषितुम् अवकाशः नासीत् । कस्यचन रक्षकभटस्य साहाय्येन बाबूरावः विनायकं प्रति एकस्मिन् पत्रे " तात्या ! (अनुज !) भवानपि आगतवान् वा ? तर्हि बहिः क्रान्तिकार्याणि के पश्यन्ति ? " इति स्वसन्देहं लिखित्वा प्रेषितवान् । तस्य समाधानरूपेण " एषः विधिनिर्णयः । निर्भयेन कष्टानां स्वागतीकरणमेव सामर्थ्यस्य निरूपणमिति वदन्ति खलु आर्याः । भवान्, अहं, बहिः स्थिताः अस्माकं सुहृदश्च इदानीं तदेव निरूपयामः ।" इति लिखित्वा प्रेषितवान् विनायकः । रक्षकद्वारा सन्देशपत्रप्रेषणं मुहुः साध्यं न भवति स्म । अतः सावरकरसोदरौ एकं नूतनं मार्गं आविष्कृतवन्तौ । तौ स्वहस्तस्थौ निगडौ एकस्योपरि एकं ताडयन्तौ तत्र जातेन शब्देन स्वीयभावान् परस्परं श्रावयन्तौ आस्ताम् । अनन्तरकाले एषः निगडशब्दः एव भाषारूपेण परिवर्तितः । एतया साङ्केतिकभाषया सर्वे बन्दिनः परस्परभाषणम् आरब्धवन्तः ।

समाजसेवा

सहबन्दिनः घातुकाः अथवा चोराः वा भवन्ति चेदपि सावरकरः तैः सह प्रेम्णा सादरं व्यवहारति स्म तेषां कृते अक्षरज्ञानं जनयति स्म । भारतदेशेतिहासम्, तस्य गौरवञ्च अधिकृत्य तेषां कृते कथाः कथयति स्म । बन्दिषु हिन्दवः, महम्मदीयाः च आसन् । प्रमादेन हिन्दुबन्दी महम्मदीयबन्दिनः स्थालिकां स्पृशति चेत् अन्यसोदरबन्दिनः सर्वे तं बहिष्कुर्वन्ति स्म । फलतः सः हिन्दुः महम्मदीयः भवति स्म । कारागाराधिकारिणः यथेच्छं हिन्दुबन्दिभिः कठिनकार्याणि कारयन्ति स्म महम्मदीयबन्दिनः दैनन्दिनकार्याणि न कुर्वन्ति चेदपि तान् न दृष्टवन्त इव तेषु मौनेन अकठिनं व्यवहरन्ति स्म। कारागारस्य एतां स्थितिं परिवर्तयितुं सावरकरः उद्यतः अभवत् ।

 

महम्मदीयानां स्थालिकास्पर्शमात्रेण हिन्दुत्वं नश्यतीति भावना केवलं मूर्खता एव इति तान् अनुनीतवान् । एतया अपभावनया महम्मदीयरूपेण परिणतान् हिन्दून् पुनः हिन्दून् कृतवान् । कारागारे महम्मदीयानां कृते नमाज् (प्रार्थनां) कर्तुम् अनुमतिः आसीत्, हिन्दूनां कृते तादृशः अवकाशः कोऽपि नासीत् । सावरकरः हिन्दुबन्दिनां कृते श्लोकान्, प्रार्थनाः, भजनानि पाठितवान् । तेषाम् अपि प्रतिदिनं पारायणं कर्तुम् अवसरम् अनुमतिञ्च सम्पादितवान् । प्रथमं कारागाराधिकारिणः हिन्दूनाम् एताम् इच्छाम् मतधर्मीयामुक्त्वा नाङ्गीकृतवन्तः । सावरकरः सत्याग्रहं कृत्वा महम्मदीयैः समानतया हिन्दूनां कृते अपि एतम् अधिकारं साधितवान् । सावरकरस्य एतेन प्रयत्नेन हिन्दुबन्दिनां मध्ये न्यूनाधिकताभावभेदाः, जातिमतदुरभिमानानि, वैषम्याणि च अपगतानि । सावरकरः स्वदण्डनम् अनुभवन् लब्धे स्वल्पे समये सहबन्दिनां श्रेयसे निर्विरामं चिन्तयति स्म ।

कृतयः

सावरकरः जन्मतः कविः । कारागारे मनः क्लेशम् अनुभवन्नपि सः तूष्णीं न उपविष्टवान् । अत्यन्तस्फूर्तिप्रदानां रचनानां निर्माणे मनः लग्नं कृतवान् । शरीरं तु बध्दमासीत्, मनः, बुध्दिः, प्रज्ञा, कल्पनाशक्तिः च तस्य स्वतन्त्राः एव आसन् । शङ्कुसहायेन कारागारभित्तिषु काव्यरचनां करोति स्म सः । लिखितानि पद्यानि कण्ठस्थानि करोति स्म। तानि यदा बुध्दौ स्थिराणि भवन्ति स्म तदा अन्यान् अंशान् लिखति स्म । एवं सः अण्डमान्कारागरे एव ’कमलगोमन्तक’, ’महासागर’ इत्यादीनि अनेकानि काव्यानि रचितवान् । भूमेः सुगन्धस्य प्रसारकाणि काव्यानि अनेकानि भवन्तु नाम, अण्डमानकारागारभित्तिशिलानां सुगन्धस्य प्रसारकाणि वीरसावरकरस्य काव्यानि तु अपूर्वाण्येव ।

रत्नगिरौ निर्बन्धः

अण्डमान् परिसरप्रभावेण, कारागारे दीयमानेन निकृष्टेन अन्नेन च सावरकरस्य स्वास्थ्यम् अत्यन्तं क्षीणम् । ईशवीये १९१९ तमे वर्षे अनुजः नारायणरावः, पत्नी यमुना च सावरकरं द्रष्टुम् अण्डमान् आगतवन्तौ । तयोः आगमनेनैव अग्रजस्य बाबूरावस्य पत्नी दिवाङ्गता इति शोकवार्ता अपि आगता । पत्नी मृता इति वार्तां बाबूरावः आपि तदैव ज्ञातवान् । कांश्चन क्षणान् एव मेलितुं लब्धः उत्तमः अवकाशः आनन्दम्, अनुनयञ्च तेषां न अदात्, किन्तु आवेदनां, दुःखमेव अवर्धयत् । सावरकरस्य अस्वास्थ्यं श्रुत्वा भारतप्रजासमूहेन मनोविकलता प्राप्ता । तं विमुक्तं कर्तुं देशस्य चतसृभ्यः दिग्भ्यः सर्वकारस्य पीडनम् अभवत् । अन्ततः सर्वकारः अङ्गीकृतवान् । फलतः ईशवीये१९२१तमे वर्षे अण्डमानतः सोदरद्वयं भारतदेशम् आनीतवान् । किञ्चित्कालं कोलकात्ताकारागारे स्थापयित्वा ईशवीये १९२२तमे वर्षे उभयो: अपि मोचनं कृतं सर्वकारेण । किन्तु वीरसावरकरस्य रत्नगीरिजनपदतः बहिः गमनं निषिध्दम् । राजतन्त्रकार्येषु भागः न वहनीयः इत्यादिष्टम् । वीरसावरकरः ईशवीय १९२४वर्षतः १९३७वर्षपर्यन्तं रत्नगिरिजनपदे स्वगृहे एव स्थितवान् । सावरकरस्य विवाहः यद्यपि ईशवीये १९०१तमे वर्षे सम्पन्नः, तथापि २४,२५ वर्षपर्यन्तं प्रथमं लण्डनन् नगरे अनन्तरं अण्डमाने च सः एकाकी एव जीवनं यापितवान् । इदानीमेव तस्य पुनर्जीवनम् आरब्धवान् सः । तस्य प्रभाता इति पुत्री, अनन्तरं विश्वास: इति पुत्रश्च जातौ । सर्वकारस्य अनुमतिं प्राप्य सावरकरः एकवारं स्वस्य बाल्यकालीननगरं नासिकं गतवान् । तत्र प्रजाः तम् आदरपूर्वकं स्वागतीकृतवत्य: । उत्तमां सम्मानसभामपि आयोजितवत्य: । एकलक्षरूप्यकाणां निधिमपि तस्मै समर्पितवत्य:+ । सावरकरः तं निधिं समाजसेवायै अर्पितवान् । सः स्वीयं जीवनमपि समाजसेवायै अर्पितवान् ।

एकताभावः

अस्पृश्यता हिन्दुसमाजस्य एकः कलङ्कः । अस्पृश्यता, न्यूनाधिकता इत्यादिभावनाभिः हिन्दुसमाजः भेदम् अभजत । अनेके हिन्दुधर्मं त्यक्त्वा परधर्मं भजन्ते स्म । अतः अस्पृश्यतां विरुध्द्य समरः करणीयः इति सङ्कल्पितवान् सावरकरः । सत्याग्रहं कृत्वा सः रत्नगिरिस्थे विठलेश्वरदेवालये अस्पृश्यानां प्रवेशं कल्पितवान् । रत्नगिरौ पतितपावनमन्दिरं निर्माय श्रीशङ्कराचार्यैः तस्य प्रारम्भोत्सवं कारितवान् । अस्पृश्यतां विहाय सर्वे हिन्दवः एकत्र मिलित्वा सहभोजनं कर्तुं कार्यक्रमान् आयोजितवान् । विद्यालयेषु छात्राः भेदभावं विस्मृत्य एकत्र उपवेष्टुम् अवकाशं कल्पयन्तु इति उपाध्यायान् प्रार्थयति स्म सः । ’अस्माकं बन्धुः यः अस्पृश्यः कृतः तं दूरीकृत्य शत्रुं न कुर्वन्तु’ इति प्रजानाम् अवगमनानुगुणं विशदीकृत्य बोधयति स्म सः । एवं हिन्दुधर्मं त्यक्त्वा अन्यमतधर्मेषु गतवतः जनान् शुध्दिकार्यक्रमैः पुनः हिन्दुधर्मे आनेतुं प्रयत्नमपि करोति स्म । हिन्दुधर्मे स्थितान् अनेकान् दोषभावान् अपाकर्तुं सावरकरः प्रयत्नं कृतवान् । भारतीयभाषासु प्रविष्टानाम् अनेकेषाम् आङ्ग्लपदानां, तेषां प्रयोगाणाञ्च अपाकरणेन भाषाशुध्दिकार्यमपि आरब्धवान् ।

हिन्दुमहासभा

ईशवीये १९३८तमे वर्षे सावरकरे स्थितं निषेधद्वयम् अपगतम् । सः राजकीयतन्त्रे प्रविष्टः । हिन्दुमहासभायाः अध्यक्षरूपेण चितः । स्वतन्त्रतायाः पूर्वं निजामस्य हैदराबादराज्ये हिन्दवः सर्वदा अत्याचारपीडिताः भवन्ति स्म । एतान् अत्याचारान् विरुध्द्य सावरकरः उद्यमम् आरब्धवान् । अधिकसङ्ख्यया हिन्दुयुवकान् भारतीयसेनायां प्रवेष्टुम् सः प्रचारं करोति स्म| भारतात् विभक्तं पाकिस्थानं पृथग् भवेदिति महम्मदीयानाम् इच्छां सः तीव्रं आक्षिपति स्म । ईशवीये १९४७तमे वर्षे भारतेन स्वातन्त्र्यं प्राप्तम् । पाकिस्थानस्य आविर्भावेण कोटिशः हिन्दवः भारतदेशं प्रति शरणार्थिरूपेण आगताः । सहस्रात् वर्षेभ्यः अस्यामेव भूमौ निवसन्तः जनाः स्वदेशे एव विदेशीया भूत्वा बहिष्कृताः सन्तः मातृदेशे एव अन्यत्र शरणार्थिनः सञ्जाताः । तेषाम् आर्तनादैः, दीनदुःखगाथाभिः अव्यथितं हृदयमेव नासीत् ।सावरकरस्य मनः एतादृशसन्दर्भे पर्यतप्यत इति तस्य स्वाभाविकः विषयः । ईशवीये १९४८तमे वर्षे गान्धीमहाभागस्य हननमभवत् । भारतसर्वकारः सावरकरं बध्द्वा तस्य कारणं सः एवेति विचारणं अकरोत् । विचारणे सः निर्दोषी, निष्कलङ्कः इति निरूपितः ।

स्वातन्त्र्यवीरसावरकरः

ईशवीयं १९४७तमं वर्षम् भारतस्य अविस्मरणीयं दिनम्। स्वतन्त्रभारतदेशस्य प्रथमस्वातन्त्र्यदिनोत्सवः सवैभवं सम्पन्नः । भारतराजधान्यां देहल्यां समायोजिते महोत्सवे तस्मिन् महानायकः विनायकसावरकरः सगर्वं भागं गृहीतवान् । अत्यन्तावेशेन प्रथमस्वातन्त्र्यसाधनसङ्ग्रामम् अधिकृत्य विवृण्वन् स्वीयभाषणे " भारतमं सर्वदा स्वतन्त्रमेव भवेत्, तदर्थम् आयुधसामग्रीसम्पादनम् अत्यावश्यकम् " इति प्रतिपादितवान् । ईशवीयं १९६० तमं वत्सरम् सावरकरस्य जीवने अविस्मरणीयम् । सावरकरः स्वस्मै विहितं आजन्मकारावासदण्डद्वयं यदि अन्वभविष्यत्, तर्हि तस्य अस्मिन् १९६०तमे वर्षे एव विमुक्तिः अभविष्यत् । अतः सावरकरस्य अभिमानिनः एतस्मिन् १९६०तमे वत्सरे डिसेम्बरमासस्य २४ दिनाङ्के ’मृत्युञ्जयदिनम्’ आचरितवन्तः । तेन साधितान् विजयान् पुरस्कृत्य विनायकसावरकरम् वैभवपुरस्सरं सम्मानितवन्तः । अण्डमाने वीरसावरकरः बन्दिरूपेण यत्र स्थापितः, तस्मिन प्रकोष्ठे तस्य ज्ञापनाय भारतसर्वकारेण एकं फलकं प्रतिष्ठापितम् । तत् प्रकोष्ठं जातीयस्मारकचिह्न्म् इति प्रकटितम् । ईशवीये १९६४तमे वर्षे महाराष्ट्रसर्वकारः, भारतसर्वकारश्च तस्मै ’ अप्रतिहतस्वातन्त्र्यवीरः’ इति बिरुदं प्रदाय सत्कृतवन्तौ ।

भारतेतिहासे षट् स्वर्णपत्राणि

विनायकरावः वृध्दः सञ्जातः । तथापि तस्य मेधा, विवेचनाशक्तिः च तीक्ष्णा एव आसीत् । क्षीणे वयस्यपि तस्य रचनाकार्ये रुचिः न गता । ’भारतदेशेतिहासे षट् स्वर्णपत्राणि’ इति नाम्ना एकं ग्रन्थं स विरचितवान् । तत्र भारतगौरववर्धकाः काश्चन घटनाः वर्णिताः । एताभिः भारतीयेषु स्वाभिमानः जागरणीयः इति सः चिन्तितवान् । विशालसागरस्यापि सीमा भवति, तां वेला इति वदन्ति । सागरः एतां वेलाम् अतिक्रामति चेत् प्रलय एव । एतद् उपमानम् उदाहरन् सः गभीरम् आलोचनीयमिति एकं विषयं प्रतिपादितवान् । भारतीयानां मनस्सु विशालता, क्षमा, शत्रूणां विषये उदारता इत्यादीनां सद्गुणानामपि सीमा आवश्यकी इति। एतं विषयं सर्वे जानीयुः इति तस्य उद्देशः । अतः एतद् अस्माभिः अवश्यम् आलोचनीयम्, आचरणीयम् च ।

स्वतन्त्रतादेव्याः सतताराधकः

सावरकरस्य जीवनं सर्वमपि सङ्घर्षमयम् आसीत् । सः युध्दवीरः? कविवीरश्च तस्य प्रतिभा अनेकक्षेत्रेषु यद्यपि प्रस्फुटा तथापि सदा तस्य प्राथमिकं चिन्तनन्तु एकमेव । सः स्वतन्त्रतादेव्याः आराधकः । तां देवीं सः मनःसिंहासने प्रतिष्ठापितवान् । मुनयः ऋषयश्च मोक्षः इति यद् वदन्ति स्म योगिनः वेदान्तिनश्च यद परब्रह्म इति भावयन्ति स्म तदेव तत्त्वं सावरकरः स्वातन्त्र्यलक्ष्मीरिति स्वहृदये सथापयित्वा आजीवनं कीर्तितवान् । तस्य प्रतिभापाटवानि यस्यां कस्यामपि दिशि प्रवहन्तु नाम, तेषाम् अन्तिमलक्ष्यं तु स्वातन्त्र्यसाधनमेव । सः कष्टानि बहूनि अनुभूतवान् तेषां परिणामः स्वातन्त्र्यमेव । तस्य आराध्यदेवी स्वतन्त्रता । तस्य अभिप्रायानुसारम् उन्नतम्, उत्तमेषु उतमम्, उदातेषु उदात्तं, श्रेष्ठेषु श्रेष्ठं यत्किमपि अस्ति चेत् तत् स्वातन्त्र्यमेव । वीरसावरकरः देशस्वातन्त्र्यार्थमेव जीवितवान् । तस्य प्राप्ते: अनन्तरं रक्षणार्थं परितप्तवान् । अत एव तस्य नाम ’ स्वातन्त्र्यवीरसावरकर’ इति प्रख्यातम् अमरञ्चाभवत् । तेनानुष्ठितः नित्यगायत्रीमन्त्रः -- जयोऽस्तु ते श्रीमहन्मङ्गले शिवास्पदे शुभदे ! स्वतन्त्रते भगवति ! त्वामहं यशोयुतां वन्दे !!

 

जीवनकार्यं समाप्तम्

सावरकरस्य अग्रजः गणेशसावरकरः ईशवीये १९४५तमे वर्षे , अनुजः नारायणसावरकरः १९५०तमे वर्षे, पत्नी यमुनाबायी १९६४तमे वर्षे स्वर्गवासिनः अभवन् । पुत्र्याः प्रभातायाः विवाहोऽपि सम्पन्नः । जीवने कार्याणि सर्वाणि सम्पूर्णतया, सफलतया समाप्तानि । शरीरमपि तस्य श्रान्तं शिथिलमासीत् । स्वास्थ्यमपि क्षीयमाणमासीत् । तस्य जीवने अवशिष्टाः आशयाकाङ्क्षाः केऽपि न आसन् । हिन्दूनां हिन्दुशब्ददात्री सिन्धुनदी अन्यदेशं गता इति, हिन्दूनां पवित्रवेदानां प्रसादकः आर्यावर्तप्रदेशः भारतदेशाद् विभक्तः पाकिस्थान् नाम्ना अन्यदेशः जातः इति विषयद्वयं तु सः न सहते स्म । एतत् त्यक्त्वा तस्य अन्याः आशाः आकाङ्क्षाः नैव आसन् । सर्वविधां तृप्तिं सः अनुभूतवान् । जीवनस्य अन्तिमदिनेषु आहारं त्यक्त्वा स्वस्य ८६तमे वर्षे ईशवीये १९६६त्मे वर्षे फेब्रवरीमासे २६ दिनाङ्के इहलोकलीलाभ्यः विमुक्तिं प्राप्तवान् विनायकदामोदरसावरकरः।

वार्ताः


हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित