श्री नरेन्द्र मोदी

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

जीवनचरित्रम्

एक: दूरदर्शी नेता, यश्च लक्षश: जनानां हृदयेषु स्वप्नानां वपनं करोति तान् च पूरयितुं साहाय्यं करोति। श्री नरेन्द्रमोदीवर्य: मुख्यमन्त्रिण: स्वरूपे गुजरातस्य अविरतविकासगाथाया: एक: शिल्पी अस्ति।

 

मुख्यमन्त्रीश्री

व्यावहारिक: स्वप्नदृष्टा

पुरस्कारा:

आन्तरराष्ट्रीयम्

मुख्यमंत्री श्री नरेन्द्र मोदी

उत्तरगुजरातस्य महेसाणाजनपदस्य वडनगरनामक: कश्चन लघुग्राम:, यत्र १९५० (1950) तमे वर्षे सप्टेम्बरमासस्य सप्तदशदिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। संस्कृते: प्रभावात् औदार्यं, परोपकार:, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि। १९५०-६० (1950-60) तमवर्षेषु भारत-पाकिस्तानयो: युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया कृतवान्। १९६७ तमे वर्षे गुजरातस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामथ्र्यकारणत: मनोविज्ञाने च नैपुण्यकारणात् स: अखिलभारतीयविद्यार्थिपरिषद: छात्रनेतृत्वेन चित:। तत: तेन गुजराते विभिन्नेषु सामाजिक - राजकीय - आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा।

 

किशोरावस्थाया: आरभ्य एव तेन बह्व्य: समस्या: बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्या: साहसेन च सर्वाण्यपि आहवानानि अवसररूपेण परिवर्तितानि। विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेश: प्राप्त: तदा तस्य मार्ग: सङ्घर्षै: कष्टदायकपरिश्रमै: च आवृत: आसीत् परं जीवनसङ्घर्षे स: सर्वदा एक: योद्धा आसीत्, सत्यनिष्ठ: सैनिक: च आसीत्। एकवारं पदं पुर: स्थापयित्वा न कदापि पृष्ठत: अवलोकितम्। तेन न कदापि पराजय: अङ्गीकृत:। एवं दृढश्चियेनैव स: राजनीतिशास्त्रम् अधिकृत्यं अनुस्नातकाध्ययनं समापयितुं समर्थो जात:। येन भारतस्य सामाजिक: सांस्कृतिक: विकास: च सर्वदा इष्ट: (लक्षित:) तादृशस्य राष्ट्रीयस्वयंसेवकसङ्घस्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव नि:स्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणं राष्ट्रवाद: च इत्येतेषां भावना: आत्मसात् कृता:।

 

आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे श्री नरेन्द्रमोदीवर्य: १९७४ (1974) तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपातकाले यदा भारतीय नागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:।

 

मोदीजी अस्मिन् समये भूगर्भवासं कृत्वा गुप्ततया केन्द्रसर्वकारस्य दुष्टनीतिनां विरुद्धं शक्तिपूर्वकं युद्धं कृत्वा प्रजाशासनस्य (लोकशासनस्य) भावनां जीवितां रक्षितवान्।

 

१९८७ (1987) तमे वर्षे भारतीयजनतापक्षे स्वात्मानं योजयित्वा राजनीते: मुख्यधारायां प्रविष्ट:। वर्षस्य अन्ते गुजरातस्य महामन्त्रिपदे स: नियुक्त:। तावता अत्यन्तं कुशलसङ्घटकत्वेन ख्याति: अपि प्राप्ता।

 

वस्तुत: तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मादेव कारणात् पक्षेण राजकीयलाभा: अपि प्राप्ता:। १९९० तमे वर्षे (1990) एप्रिल् मासे केन्द्रीयशासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिक सम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्ष: गुजराते सत्तारूढ: जात:। तदा आरभ्य गुजरातस्य शासनसूत्रं भारतीयजनतापक्षस्य हस्ते अस्ति।

 

१९८८ त: १९९५ पर्यन्तं य: काल: अतीत: तस्मिन्नेव काले श्रीनरेन्द्रमोदी वर्यस्य परिचय: कुशल: रणनीतिज्ञ: इति रूपेण उद्भूत:। येन च गुजराते भारतीयजनतापक्ष: शासनकर्तृ - पक्षत्वेन सफलतापूर्वकं परिचायित:। अस्मिन्नेव काले अत्यन्तं महत्वपूर्णयो: द्वयो: कार्यक्रमयो: आयोजनस्य उत्तरदायित्वं मोदीमहोदयाय दत्तम्। तत्र प्रथमम् आसीत् श्रीमत: लालकृष्ण - अडवाणीमहाशयस्य सोमनाथात् आरभ्य अयोध्यां यावत् आयोजिता रथयात्रा। तद्वदेव भारतस्य दक्षिण भागात् कन्याकुमारीत: कश्मीरं यावत् एका यात्रा। १९९८ (1998) तमे वर्षे देहल्यां शासनं परिवत्र्य भाजपस्य उदयार्थं श्रेयो यदि देय: तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं मुख्यत्वेन मोदीवर्येण ऊढम्।

 

१९९५ (1995) तमे वर्षे स: पक्षस्य राष्ट्रीयसचिवत्वेन नियुक्त:, तदनन्तरं भारतस्य पञ्च महत्त्वपूर्णराज्याणां कार्यभार: तस्मै प्रदत्त:। यश्च कस्यचिदपि युवनेतु: कृते एका अपूर्वा अद्वितीया च सिद्धि: अस्ति। १९९८ (1998) तमे वर्षे तेन सङ्घटनस्य महासचिवपदे पदोन्नति: प्राप्ता।

 

तदा आरभ्य अक्तूबर २००१ (2001) तमे वर्षे यदा भारतस्य सर्वाधिकेषु समृद्धेषु प्रगतिशीलेषु राज्येषु एकतमस्य गुजरातस्य मुख्यमन्त्रित्वेन चित: जात:, तावत् पर्यन्तं स: महासचिवपदे आसीत्।

 

राष्ट्रीयस्तरे तस्य कार्यकरणावसरे श्रीमता नरेन्द्रमोदी वर्येण जम्मु-कश्मीर सदृशस्य संवेदनशीलस्य राज्यस्य तथा तद्वदेव संवेदनशीलानाम् उत्तरपूर्वीय राज्याणाम् अन्येषां च प्रान्तस्तरीयाणां बहूनाम् आयामानाम् उपरि अवधानस्य उत्तरदायित्त्वं प्राप्तम्।

 

बहूनां राज्याणां पक्षस्य सङ्घटनं समीकर्तुं तस्मै उत्तरदायित्वं दत्तम् आसीत्। राष्ट्रीयस्तरे कार्यकरणावसरे श्री नरेन्द्रमोदीवर्य: पक्षस्य महत्त्वपूर्ण - प्रवक्तृरूपेण उद्भूत:, यदा नैका: महत्त्वपूर्णा: घटना: घटिता: तदा तेन विशिष्टा: भूमिका: ऊढा:। कालान्तरेण स: समग्रेऽपि विश्वे यात्रां कृतवान् बहूनां देशानां प्रतिष्ठितै: नेतृभि: सह मिलितवान् वार्तालापं च कृतवान्। एतै: अनुभवै: न केवलं तस्य दृष्टिकोण: विकसित: परं भारतस्य सेवां कर्तुं विश्वे च तस्य (भारतस्य) सामाजिकम् आर्थिकं च वर्चस्वं प्रस्थापयितुम उत्साह: वृद्धिं गत:।

 

२००१ (2001) तमे वर्षे गुजरातसर्वकारस्य नेतृत्वं कर्तुं स: आहूत:। यदा श्रीमत: नरेन्द्रमोदीवर्यस्य सर्वकारेण ७ अक्तूबर २००१ (2001) तमे दिवसे शपथ: स्वीकृत: तदा गुजरातस्य अर्थव्यवस्था २००१ तमस्य वर्षस्यैव जनवरीमासस्य भयावहेन भूकम्पेन नाशिता इव।

 

बह्व्य: प्राकृतिकविपद: अपि तत्र कारणभूता:। तथापि एकेन कुशलव्यूहरचनाकारेण स्वस्य राष्ट्रीयै: आन्तरराष्ट्रीयै: अनुभवै: समृद्धो भूत्वा अस्या: समस्याया: निराकरणं कर्तुं मार्गप्राप्ते: निर्णय: कृत:।

 

यदा मुख्यमन्त्रिरूपेण पदभार: गृहीत: तदा सर्वप्रथमम् आह्वानरूपं कार्यम् अर्थात् २००१ (2001) तमवर्षस्य विनाशकारी भूकम्प:। तेन भूकम्पेन पीडितानां जनानाम् आवासव्यवस्था, पुन: आवासानां निर्माणं पुनर्वसनप्रक्रिया च। भुजनगरम् आमूलचूलं जीर्णं शीर्णं च जातम् आसीत्। सहस्त्रश: जना: केषुचिदपि आश्रयस्थानेषु दैनन्दिनसुविधा: विना कथमपि जीवनं यापयन्ति स्म। साम्प्रतं श्रीनरेन्द्रमोदीवर्येण प्रतिकूला: परिस्थितेय: अपि कथं विकासस्य अवसररूपेण परिवर्तिता: तदद्य दृष्टुं शक्यते।

 

यदा पुनर्निमाणस्य पुनर्वसनस्य च कार्यं चलति स्म तदा अपि श्रीमता नरेन्द्रमहोदयेन स्वस्य दूरदर्शित्वं न नाशितम्। गुजरातेन सर्वदा औद्योगिक: विकास: एव लक्षित: आसीत् परं नरेन्द्रमहोदयेन सर्वाङ्गिणाय - सामाजिकाय आर्थिकाय च विकासाय सुष्ठु-रीत्या सामाजिकक्षेत्रस्य उपरि ध्यानं केन्द्रितं कृत्वा तत् असन्तुलनं समीकर्तुं निर्णय: कृत:। श्रीमता नरेन्द्रमोदीवर्येण पञ्चामृतयोजना कल्पिता। राज्यस्य सर्वाङ्गिणाय विकासाय पञ्चसूत्रीया रणनीति:।

 

तस्य नेतृत्वे शिक्षणं - कृषि: आरोग्यसेवया सहितं नैकेषु क्षेत्रेषु महत् परिवर्तनं दृष्टुं शक्यते। तेन राज्यस्य उज्वलभविष्याय स्वदृष्टि: स्थिरीकृता। नीति-अनुगुणं परिवर्तनम् आनेतुं कार्यक्रमा: आरब्धा:। सर्वकारस्य प्रशासनविभागानां पुन: व्यवस्थां कृत्वा गुजरातं सफलतापूर्वकं समृद्धिपथम् आनीतवान् माननीय: नरेन्द्रमोदीवर्य:। सत्तारूढे सति १०० दिनेषु एव (शतं दिनानाम् अनन्तरमेव) जना: तस्य आशयान् क्षमता: कार्यशैलीं च ज्ञातवन्त:। स्वस्य व्यवस्थापनकुशलताया: स्पष्टदूरदर्शिताया: सच्चारि-त्र्यस्य च कौशलानां कारणत: २००२ तम वर्षस्य दिसम्बरमासस्य सामान्येषु निर्वाचनेषु प्रत्यक्षतया भव्य: विजय: प्राप्त:। एवं च मोदी सर्वकार: विधानसदनस्य १८२ स्थानानि प्राप्य स्पष्टेन बहुमतेन पुन: निर्वाचित:।

 

विजयोऽयं अङ्कानां (गणनादृष्या) दृष्टया उत्कृष्ट: आसीत् यतोऽहि विपक्षेन कोङ्ग्रेसपक्षेन गुजरातस्य निर्वाचनाय स्वस्य राष्ट्रीयस्तरीयानां स्त्रोतसाम् उपरि अधिकम् अवधानं दत्तम् आसीत्। विपक्षेण महता प्रमाणेन चालितं निन्दात्मकं प्रचाराभियानं कुशलतापूर्वकं पारं कृत्वा श्री नरेन्द्र मोदीवर्येण मुख्याय विपक्षाय लज्जास्पद: पराजय: प्रदत्त:, यस्य वैशाल्येन मित्राणि शत्रव: च समानतया चकिता: (दिङ्मूढा:) अभूवन्।

 

२००२ (2002) तमे वर्षे यदा तेन गुजरातस्य मख्यमन्त्रित्वेन द्वितीयवारं शपथ: स्वीकृत: तदा तस्य शपथविधिसमारोहस्य आयोजनं स्टेडियममध्ये करणीयम् अभवत्। कारणम् एकमेव आसीत् यत् विशाल सङ्ख्यायां जना: स्वस्य प्रियं नेतारं दृष्टुं श्रोतुं च इच्छन्ति स्म, यै: जनै: एतावता उत्साहेन विजयी कृत:।

 

जनानाम् आकांक्षा: अपेक्षा: च तेषाम् अपेक्षाया: अपेक्षया अपि अधिकं तोषिता:। अद्यत्वे गुजरातं विविधक्षेत्रेषु अग्रेसरं विद्यते तद् भवतु नाम इ-गवर्नन्स स्यात्, धननिवेश: स्यात्, दारिद्रय - निवारणं विद्युत् व्यवस्था वा स्यात्, एस् ई झेड स्यात्, मार्गनिर्माणं स्यात् आर्थिकीव्यवस्था स्यात् वा यत् किमपि अन्यत् क्षेत्रं स्यात् - एतेषु सर्वेषु अपि विषयेषु केन्द्रे जनानां सहभागिता अस्त्येव।

 

बहूनाम् अवरोधानाम् अनन्तरमपि नरेन्द्रमोदीवर्येण निर्धारितं यत् कथमपि नर्मदासेतुबन्ध: १२१.९ मीटर परिमितम् औन्नत्यं प्राप्नुयात्। यै: अस्मिन् कार्ये अवरोध: उत्पादित: तेषां विरुद्धं महोदयेन उपवासा: अपि आचरिता:। सुजलां सुफलाम् इति तादृशी काचित् योजना विद्यते यथा गुजराते जलस्त्रोतसाम् एकं ग्रिड निर्मातुं जलं रक्षितुं तथा तस्य योग्यदिशि उपयोगस्य दिशायां द्वितीयम् एकम् अभिनवपदम् अस्ति।

 

सोइल हेल्थ कार्ड, रोमिंग रेशन कार्ड, रोमिंग स्कूल कार्ड इत्यादीनाम् आरम्भ: इत्येतादृशा: केचित् नवीनविचारा: राज्यस्य सामान्यमनुष्यान् प्रति तस्य चिन्ता: दर्शयन्ति।

 

कृषिमहोत्सव:, चिरञ्जीवी योजना, मातृवन्दना, पुत्रिरक्षाभियानं (बेटी बचावो), ज्योतिग्रामयोजना, कर्मयोगी योजना च। इति एतादृशीनां बह्वीनां योजनानाम् उद्देश्यम् अर्थात् गुजरातस्य सर्वांङ्गिविकास:।

 

अनेन प्रकारेण पुरोगमनाय दृष्टि: विचारा: समयानुसारम् आचरणं च श्री नरेन्द्रमोदीमहाशयं सत्यनिष्ठराजनेतु: रूपेण प्रमाणितं करोति य: च भाविन: जनानां कृते विचारयति। अन्येषां राजनेतृणां पृष्ठभूम्या: पृथगेव, ये तु केवलम् अग्रिमाय निर्वाचनाय एव विचारयन्ति।

 

नवीनविचारै: युक्तेन ऊर्जावता (उष्मापूर्णेन) युवलोकनेतृत्वेन व्याप्तेन श्री नरेन्द्रमोदीवर्येण स्वविचारा: सफलतापूर्वकं गुजरातस्य जनजनपर्यन्तं प्रापिता:। स: पञ्चकोटित: अधिकजनानां विश्वासं सम्पादयितुं तेषाम् आशा: च जागरयितुं सक्षम: अभवत्। लक्षश: जनान् अर्थात् न केवलं तावदेव सामान्याति - सामान्यं जनमपि तस्य नाम्ना आह्वयति इति तस्य स्मृतिशक्ते: कारणात् स: प्रजानां प्रिय: जात: अस्ति। आध्यात्मिकान् नेतृन् (धर्मगुरून्) प्रति तस्य अत्यन्तम् आदर: इति कारणात् सर्वधर्माणां सामीप्याय साहाय्यं प्राप्तम् अस्ति।

 

भिन्न-भिन्नप्रकारेण आयं (आर्थिकम्) कर्तृणां समूहेन विविधधर्मै: पृथक्तया राजकीयसम्बन्धित: गुजरातस्य केनचित् विशालेन समूहेन मोदी वर्यस्य सक्षमत्वेन दूरदर्शि नेतु: स्वरूपे आदरं कुर्वन्ति। य: पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदय: कुशल: वक्ता निपुण: मन्त्रणाकार: चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। तस्य अनुयायिषु समाजस्य प्रत्येकसम्प्रदायस्य धर्मस्य - आर्थिकवर्गस्य च जना: समाविष्टा: सन्ति।

 

तस्य नेतृत्वकौशलेनैव गुजरातेन समग्रविश्वात् बहूनि सन्मानानि बहव: पुरस्कारा: च प्राप्ता: सन्ति। यथा - आपद्काले व्यवस्थापनाय संयुक्तराष्ट्रपक्षत: सासाकावा पुरस्कार: रचनात्मकाय सक्रियाय च प्रशासनाय कोमनवेल्थ एसोसियेशन फोर पब्लिक एडमिनिस्ट्रिेशन एण्ड मेनेजमेण्ट एवं युनेस्को इत्यनयो: पुरस्कार: (एवोर्ड) ई-गवर्नन्सनिमित्तं सी.एस.आई. पुरस्कार: च। वस्तुत: तु प्रजाभि: सततं वर्षत्रयं यावत् श्री नरेन्द्र मोदीवर्याय सर्वश्रेष्ठस्य मुख्यमन्त्रिण: स्थानं प्रदत्तम् अस्ति तदेव तस्य महतीनां सिद्धिनां वैशाल्यं दर्शयति।

 

गुजरातं विश्वस्य पुरत: चित्रयितुं तेन आरब्धम् अद्भुतम् अभियानम् अर्थात् वायब्रण्टगुजरातम्। येन अभियानेन समग्रजगत: धननियोजकानां ध्यानं गुजरातं प्रति आकृष्टम्।

 

गतेभ्य: बहुभ्य: वर्षेभ्य: गुजराते द्वि-अङ्की वृद्धि: दृष्टुं शक्या। अनेन प्रकारेण सततगतिशीलम् इदं गुजरातम् अग्रे सरति तदा अयं यात्रिक: समयसिकतायां स्वपदचिह्नानि त्यजन् माइलस्टोन इत्येनं स्माइलस्टोन मध्ये परिवर्तितं कृत्वा २०१० तमे वर्षे राज्यस्य स्वर्णिम जयन्ती उत्सव: आचरणीय: इति लक्ष्यं मनसि निधाय उत्तरोत्तरं प्रयाणम् अनुवर्तितम् एव। अत एव गुजरातम् अधुना विश्वस्य विकसितेषु अर्थतन्त्रेषु सगर्वं तिष्ठति।

 

प्राथमिककक्षाया: आरभ्य उच्चतमं स्थानं प्राप्तुं तस्य राजकीययात्राया: निरीक्षणमपि तस्य गात्रस्य वर्धमानं व्यापं दर्शयति।

 

नेतृत्वस्य विचारान् आदर्शान् च दृष्टुम इच्छुक: अत्र तद् दृष्टुं शक्नोति। अत्र तादृशम् एकम् अनुकरणीयम् आदर्शं व्यक्तित्वं दर्शयति यत् केन प्रकारेण चारित्र्येण साहसेन समर्पणेन शेक्त्या च सम्पन्न: युवा अल्पकाल एव रचनात्मकं नेतृत्वं कर्तुं शक्नोति। सार्वजनिके जीवने प्राय: तथा दुष्टुं न लभ्यते यत् दृढसेवाभावनया उद्धेश्यस्य द्रढतया युत: कश्चित् जन: जनानां तावन्तं स्नेहं प्राप्नोति य: च स्वयं तेषु तावदेव स्निह्यति।

 

स: अत्यन्तं स्वल्पेनैव कालेन भाग्यवता जनस्वरूपेण उद्भूत: अस्ति।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

अहमदाबाद

गुरुवार को अहमदाबाद की रैली में नरेंद्र मोदी ने बहुत ही शायराना भाषा का इस्तेमाल किया। मोदी के हाथ में छोटी-छोटी बहुत सारी पर्चियां हैं। उन्हें पहले कभी किसी रैली में इस तरह कागज देखते नहीं देखा। उन्होंने रैली में कविता भी सुनाई। पढ़िए रैली में मोदी द्वारा सुनाई गई कविता...

 

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा

मैं देश नहीं झुकने दूंगा

मेरी धरती मुझसे पूछ रही

कब मेरा कर्ज चुकाओगे

मेरा अंबर पूछ रहा

कब अपना फर्ज निभाओगे

मेरा वचन है भारत मां को

तेरा शीश नहीं झुकने दूंगा

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा

वे लूट रहे हैं सपनों को

मैं चैन से कैसे सो जाऊं

वे बेच रहे हैं भारत को

खामोश मैं कैसे हो जाऊं

हां मैंने कसम उठाई है

मैं देश नहीं बिकने नहीं दूंगा

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा

वो जितने अंधेरे लाएंगे

मैं उतने उजाले लाऊंगा

वो जितनी रात बढ़ाएंगे

मैं उतने सूरज उगाऊंगा

इस छल-फरेब की आंधी में

मैं दीप नहीं बुझने दूंगा

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा

वे चाहते हैं जागे न कोई

बस रात का कारोबार चले

वे नशा बांटते जाएं

और देश यूं ही बीमार चले

पर जाग रहा है देश मेरा

हर भारतवासी जीतेगा

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा

मांओं बहनों की अस्मत पर

गिद्ध नजर लगाए बैठे हैं

मैं अपने देश की धरती पर

अब दर्दी नहीं उगने दूंगा

मैं देश नहीं रुकने दूंगा

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा

अब घड़ी फैसले की आई

हमने है कसम अब खाई

हमें फिर से दोहराना है

और खुद को याद दिलाना है

न भटकेंगे न अटकेंगे

कुछ भी हो इस बार

हम देश नहीं मिटने देंगे

सौगंध मुझे इस मिट्टी की

मैं देश नहीं मिटने दूंगा।

 

 

वार्ताः


  • श्री नरेन्द्र मोदी

    जीवनचरित्रम् एक: दूरदर्शी नेता, यश्च लक्षश: जनानां हृदयेषु स्वप्नानां वपनं करोति तान् च पूरयितुं साहाय्यं करोति। श्री नरेन्द्रमोदीवर्य: मुख्यमन्त्रिण: स्वरूपे गुजरातस्य अविरतविकासगाथाया: एक: शिल्पी अस्ति। मुख्यमन्त्रीश्री...
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित