श्री द्रोणाचार्यः

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

द्रोणाचार्यः महाभारते उल्लिखितं प्रसिद्धमेकं पात्रमस्ति। पाण्डवकौरवाणाम् शस्त्रविद्याचार्यः असीत् द्रोणाचार्यः ।

सनातनभारते गुरोः महत्त्वम्

मातृ देवो भव , पितृदेवो भव , आचार्यदेवो भव । इत्येवं मातरं , पितरं , आचार्यश्र्च स्मरन्ति शुभकार्याणामारम्भे । एषा सनातनपरम्परां । " शिक्षकः एव देशस्य मेरूदण्डः । शिक्षकशिक्षणशिक्षार्थिनां मधुरव्यवस्थितक्रमबद्धसम्बन्धः एव देशस्य प्रगत्ये पूरकः " इत्येव वदति स्म डा ॥ सर्वपल्ली राधाकृष्णन् महोदयः । गुकारस्त्वन्धकरः रूकारः तन्त्निवारकः इति उक्तिः । अन्धनिवारकः प्रकाशः । अज्ञाननिवरकं ज्ञानम् । ज्ञानं तु गुरोरेव लभ्यते । गुरुर्ब्रह्म गुरूर्विष्णुः , गुरुर्देवो महेश्र्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः । भारतीयसंस्कृतिः गुरवे अत्युन्नतं स्थानं ददाति ।

अस्माकं पुराणेतिहासपरम्परया अपि गुरोः अत्युन्नतं स्थानं दत्तम् । प्राचीनकाले विध्यादातुः गुरोः कश्र्चन नीतिनियमाः आसन् । गुरूः विध्यां धनार्थं न दधात् । गुरूः विक्रयणादिव्यापारं न कुर्यात् । विध्याभ्यासानन्तरं गुरवे गुरुदक्षिणा दीयते । विशेषतः द्रोणाचार्यः स्वशिष्यात् एकलव्यात् । कौरवपक्षे कदाचित् एकलव्यः तिष्ठेत् इति धिया अर्जुनस्य श्रेयसे द्रोणः एकलव्यस्य दक्षिणाङ्गुष्ठमेव पृष्ट्वा गुरुदक्षिणारूपेण प्राप्तवान् । तस्मिन् काले विध्यादात्रे गुरवे सर्वस्वत्यागं कुर्वन्ति स्म । दुष्टशिक्षणाय लोकहिताय च यत्किमपि कर्तुं गुरोः अधिकारः आसीत् । तथैव गुरवः आचरन्ति स्म ।

द्रोणस्य जन्म

आधुनिककाले गर्भकोशस्य न्यूनताः सन्ति चेत् प्रनाळशिशुं सम्पदयन्ति । अण्डाणोः वीर्याणोश्र्च मेलनं कृत्वा प्रनाळे सिशुं वर्धयन्ति । एषः आश्र्चर्यदायकः विषयः इति सत्यमेव । एवमेव अकाले प्रसवः भवति चेत् रक्षणविधानेन शिशुं वर्धयन्ति सप्तमे मासे जन्म भवति चेदपि । एतत् तन्त्रमिदनीं प्रसिद्धम् । कौरवाणां जन्मकथा एवमेव विशिष्टा । एकस्मिन् गर्भे षट्पर्यन्तमपि कदचित् शिशवः भवन्ति इति श्रुतम् । परन्तु महाभारते एकस्यां मातरि शतम् पुत्राः एका पुत्री च जाताः इति विशेषः । एवमेव द्रोणस्य कथा अपि अद्भुता । एषः प्रनाळे जन्म जातः अपि द्रोणे जातः । अतः द्रोणः इत्येव नाम ।

एकदा महर्षिः भारध्वाजः गङ्गानदीतीरे तपः आचरति स्म । ऋत्विजः मेलयित्वा अग्निष्टोमयागं कर्तुं सिद्धः । स्नानार्थं नदीं प्रस्थितवान् । तदा घृताचिनाम्नीं अप्सरसं दृष्टवान् । तस्याः रूपातिशयेने स्तम्भीभूतः । सा अपि एतं दृष्ट्वा इष्टवती । तदैव झटिति तस्य दिव्यं तेजः स्खलितम् । तत् द्रोणपात्रे स्थापितवान् । सुकाले ततः तेजोवान् पुंशिशुः उत्पन्नः । द्रोणे जातः इति द्रोण इत्येव नामकरणं कृतम् । तस्य अङ्गिरसांवरः , आचार्यः , भारताचार्यः , भारध्वाजः , भरध्वाजपुत्रः , शोणाश्र्वः , रुक्मरथः , रथयादपः , द्रोणः इति नव नामानि सन्ति ।

बाल्यं यौवनञ्च

शुक्लपक्षस्य चन्द्र इव कुमारः वर्धमानः अग्निवेषनमकऋषितः विध्यां प्राप्तवान् । द्रोणः पितुः आदेशत् कृपाचार्यस्य अनुजां कृपिम् ऊढवात् । द्रोणाचार्यस्य अश्र्वत्थामा इति नामकः पुत्रः जातः । द्रोणाचार्यः परशुरामतः अस्त्राधिदेवतानां वशीकरणमन्त्रम् अभ्यसितवान् ।

शस्त्रास्त्रविध्यायां द्रोणतुल्यः पण्डितः कोऽपि नासीत् । परन्तु द्रोणः बहु दरिद्रः आसीत् । एतादृशस्थितौ एकदा सहपाठिनः द्रुपदस्य राजगृहं गतवान् । " मम उपरि विध्यासरस्वत्याः अनुग्रहः जातः लक्ष्म्याः अनुग्रहः न जातः । तदर्थमत्रागतः इत्युक्तवान् द्रुपदस्य समीपे । पूर्णसभायां राजा द्रुपदः निर्धनस्य ब्राह्मणस्य सख्यं न इष्टवान् । उक्तवान् च " महाराजस्य मम , निर्धनस्य विप्रस्य भवतः च कः सम्बन्धः ? स्नेहः कथं युज्यते ? इति उपहासपूर्वकम् उक्तवान् । खिन्नः आचार्यः " राजन् , एकस्मिन् दिने , वीरं क्षत्रियंकुमारं शिष्यत्वेन स्वीकृत्य तस्मै मम सर्वां विध्यां दत्त्वा , निपुणं करोमि । सः भवन्तं रज्वा बद्ध्वा मम पदस्य समीपे पातयिष्यति " इति शपथं कृतवान् । सभास्थानतः कोपेन निर्गतवान् ।

द्रोणस्य शस्त्रविद्याकौशलम्

एकदा क्रीडाङ्गणे राजकुमाराः कन्दुकेन क्रीडन्ति स्म । कन्दुकं समीपस्ये नष्टे कूपे पतितम् । कन्दुकं कूपतः कथं निष्कासनियम् इति चिन्तनं प्रचलति स्म बालेषु । तदा कृशकायः सञ्चारी ब्राह्मणः द्रोणः दृष्टः । तं राजकुमाराः दृष्टवन्तः । बालानां स्थितिः ब्राह्मणेन ज्ञाता । ब्राह्मणः दर्भमेव बाणं कृत्वा एकस्य पृष्ठतः एकं त्यक्तवान् । एवं कन्दुकतः अन्तिमदर्भपर्यन्तं दर्भश्रृङ्गखला रचिता । ततः दर्भद्वारा कन्दुकमुन्नीय राजकुमारेभ्यः दत्तवान् । राजकुमाराः सन्तुष्टाः ।

एतत् कूपकन्दुकप्रकरणम् आमूलाग्रं ज्ञात्वा भीष्मः वीरकुमारान् पाण्डवान् कौरवान् च धनुर्विध्यां पाठयितुं आचार्यं द्रोणं नियोजितवान् । कुरूकुलसुताः सर्वे द्रोणस्य शिष्याः जाताः । आचार्यस्य द्रोणस्य अत्यन्तप्रियशिष्यः अर्जुनः जातः । अर्जुनः एव अग्रे द्रुपदबद्ध्वा द्रोणस्य पादमूले आनितवान् । एवं द्रोणः स्वशपथं पूरितवान् ।

द्रोणस्य अवसानम्

पाण्डवाः कौरवाः च द्रोणस्य शिष्य़ाः चेदपि महाभारतयुद्धसमये द्रोणः कौरवपक्षे स्थितवान् अनिवार्यतया । द्रोणाचार्यः युद्धे असंख्य़ातान् पाञ्चालसैनिकान् संहृतवान् युद्धे रुद्रः इव विजृम्भितवान् । तदा कृष्णः उक्तवान् अर्जुनम् " कुरुक्षेत्रे धर्मस्य जयः आवश्यकश्र्चेत् भवतः शस्त्रगुरोः सङ्ग्रामात् विरामः अनिवार्यः। तस्य एकैकः उपायः नाम " अश्र्वत्थामा हतः " इति उच्चैः वक्तव्यम् " इति ।

 
महाभारतयुद्धसमये कुरुसेनाप्रमुखः द्रोणाचार्यः

युद्धे भीष्मः अश्र्वत्थामनामानं गजं मारितवान् उक्तवान् च अश्र्वत्थामा हतः कुञ्जरः इति परन्तु कुञ्जरशब्दं शनैः उक्तवान् । द्रोणस्तु प्रियपुत्रस्य अश्र्वत्थाम्नः मरणमभवत् इति विचिन्त्य व्याकुलः संवृत्तः । वैराग्यमुत्पन्नम् । शस्त्रं न्यस्तवान् । धृष्टध्युम्नः द्रोणशिरः छिन्नवान् । द्रोणः परंधाम प्राप्तवान् । एवं श्रीकृष्णस्य सूचनानुगुणं सर्वं संवृत्तं विप्रश्रेष्ठस्य जीवितं समाप्तं च॥

बाह्यसम्पर्कतन्तुः

देववाणी एंड्रायड एप डाउनलोड

वार्ताः


आपकी राशि के अनुसार शिव अर्चना...

आपकी राशि और शिव पूजा शिव पुराण में उल्लेख हैं की महाशिवर [ ... ]

अधिकम् पठतु
बुद्ध और ब्राम्हण

बुद्ध और ब्राह्मण मूलनिवासी अकसर ब्राह्मणों को कोसते है [ ... ]

अधिकम् पठतु
सोमवार के ही दिन शिव की पूजा क्यों करते हैं जानें ...

🌿🌸🍃🌺🌿🌸🍃🌺🌿🌸🍃 *क्यों सोमवार" को ही *भगवान शिव की पूजा कर [ ... ]

अधिकम् पठतु
जानें महाशिवरात्री का वैज्ञानिक पहलू एवं छ्मा मंत्...

💐✍💐 *जानें महाशिवरात्रि का वैज्ञानिक पहलू और क्षमा मन्त [ ... ]

अधिकम् पठतु
रावण पराजय और सीता हरण क्यों...

*“ रावण - पराजय और सीता - हरण क्यों ?
“* नारायण ! श्रीमद् देवीभ [ ... ]

अधिकम् पठतु
महाशिवरात्री व्रत कथा...

महा देव औरशिवरात्रि जप तप ब्रतकी कथा पूर्व काल में चित्रभ [ ... ]

अधिकम् पठतु
एक रोचक कथा - पंडित अजय भारद्वाज द्वारा...

हमारे मन में बहुत बार यह ख्याल आता है कि क्या वो मालिक/ भगव [ ... ]

अधिकम् पठतु
महाशिवरात्रि 2018: तिथि को लेकर संशय दो तारीखों मे...

महाशिवरात्रि 2018: तिथि को लेकर संशय, कब निकलेगी भोलेनाथ की ब [ ... ]

अधिकम् पठतु
कमला सोहोनी

कमला सोहोनी १०१२ तमे वर्षे अजायत । तस्याः पिता नारायणराव [ ... ]

अधिकम् पठतु
कर्कटी (राक्षसी)

ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभाव [ ... ]

अधिकम् पठतु
कपिलः (ऋषिः)

ऋषिः कपिलः सांख्यदर्शनस्य प्रवर्तकः अस्ति । भागवतपुराण [ ... ]

अधिकम् पठतु
कनकदासः


कनकदासः (Kanaka Dasa) श्रेष्ठः कीर्तनकारः । (Kannada:ಕನಕದಾಸರು)कर्णाटक [ ... ]

अधिकम् पठतु
कठसंहिता

कठसंहिता यजुर्वेदस्य सप्तविंशति-शाखासु अन्यतमाऽस्ति ।  [ ... ]

अधिकम् पठतु
कठोपनिषत्

कठोपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा । कठोपनिषदः  [ ... ]

अधिकम् पठतु
कटासराजशिवमन्दिरम्...

कटासराजशिवमन्दिरं पाकिस्थानस्य पञ्जाब-राज्यस्य उत्तरी [ ... ]

अधिकम् पठतु
अन्य लेख